भगवानुवाच 001
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् 001a
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् 001c
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे 002a
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् 002c
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् 003a
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो 003c
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् 004a
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम 004c
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ 004e
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम 005a
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ 005c
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद 006a
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिन्दम 006c
अर्जुन उवाच 007
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज 007a
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो 007c
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् 008a
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् 008c
दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा 009a
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् 009c
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः 010a
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः 010c
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च 011a
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा 011c
एष मे प्रथमः कामो भगवन्भगनेत्रहन् 012a
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा 012c
भगवानुवाच 013
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् 013a
समर्थो धारणे मोक्षे संहारे चापि पाण्डव 013c
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् 014a
वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः 014c
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् 015a
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् 015c
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे 016a
मनसा चक्षुषा वाचा धनुषा च निपात्यते 016c
वैशम्पायन उवाच 017
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः 017a
उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् 017c
ततस्त्वध्यापयामास सरहस्य निवर्तनम् 018a
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् 018c
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् 019a
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा 019c
ततश्चचाल पृथिवी सपर्वतवनद्रुमा 020a
ससागरवनोद्देशा सग्रामनगराकरा 020c
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः 021a
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् 021c
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः 022a
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः 022c
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः 023a
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् 023c
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः 024a
प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत 024c
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः 025a
धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् 025c
ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम् 026a
विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यतः 026c