वैशम्पायन उवाच 001
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु 001a
पिनाकपाणिर्भगवान्सर्वपापहरो हरः 001c
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम् 002a
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः 002c
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् 003a
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः 003c
देव्या सहोमया श्रीमान्समानव्रतवेषया 004a
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा 004c
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः 005a
अशोभत तदा राजन्स देवोऽतीव भारत 005c
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा 006a
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् 006c
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः 007a
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् 007c
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् 008a
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः 008c
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् 009a
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् 009c
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् 010a
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् 010c
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् 011a
किरातरूपी सहसा वारयामास शङ्करः 011c
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः 012a
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः 012c
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः 013a
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् 013c
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः 014a
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा 014c
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते 015a
तथा तयोः सन्निपातः शरयोरभवत्तदा 015c
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव 016a
ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् 016c
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् 017a
किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा 017c
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव 017e
को भवानटते शून्ये वने स्त्रीगणसंवृतः 018a
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ 018c
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः 019a
मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः 019c
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे 020a
न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि 020c
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय 020e
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव 021a
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् 021c
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः 022a
ममैव च प्रहारेण जीविताद्व्यवरोपितः 022c
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः 023a
अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे 023c
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव 024a
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् 024c
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः 025a
शरैराशीविषाकारैस्ततक्षाते परस्परम् 025c
ततोऽर्जुनः शरवर्षं किराते समवासृजत् 026a
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः 026c
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् 027a
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः 027c
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः 028a
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् 028c
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः 029a
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः 029c
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः 030a
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः 030c
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः 031a
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् 031c
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः 032a
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् 032c
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः 033a
व्यसृजच्छतधा राजन्मयूखानिव भास्करः 033c
तान्प्रसन्नेन मनसा भगवाल्ँलोकभावनः 034a
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः 034c
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा 035a
वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् 035c
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् 036a
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे 036c
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः 037a
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः 037c
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् 038a
नयामि दण्डधारस्य यमस्य सदनं प्रति 038c
सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा 039a
तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः 039c
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत 040a
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् 040c
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि 041a
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः 041c
तस्य मूर्धानमासाद्य पफालासिवरो हि सः 041e
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः 042a
यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः 042c
किरातरूपी भगवांस्ततः पार्थो महाबलः 043a
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे 043c
प्रजहार दुराधर्षे किरातसमरूपिणि 043e
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः 044a
किरातरूपी भगवानर्दयामास फल्गुनम् 044c
ततश्चटचटाशब्दः सुघोरः समजायत 045a
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः 045c
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् 046a
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव 046c
जहाराथ ततो जिष्णुः किरातमुरसा बली 047a
पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् 047c
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा 048a
समजायत गात्रेषु पावकोऽङ्गारधूमवान् 048c
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् 049a
तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् 049c
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ 050a
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत 050c
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महात्मना 051a
ततः पपात सम्मूढस्ततः प्रीतोऽभवद्भवः 051c
भगवानुवाच 052
भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते 052a
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः 052c
समं तेजश्च वीर्यं च ममाद्य तव चानघ 053a
प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ 053c
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् 054a
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः 054c
वैशम्पायन उवाच 055
ततो देवं महादेवं गिरिशं शूलपाणिनम् 055a
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् 055c
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च 056a
प्रसादयामास हरं पार्थः परपुरञ्जयः 056c
अर्जुन उवाच 057
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन 057a
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर 057c
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् 058a
दयितं तव देवेश तापसालयमुत्तमम् 058c
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत 059a
न मे स्यादपराधोऽयं महादेवातिसाहसात् 059c
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह 060a
शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर 060c
वैशम्पायन उवाच 061
तमुवाच महातेजाः प्रहस्य वृषभध्वजः 061a
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् 061c