जनमेजय उवाच 001
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः 001a
विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् 001c
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः 002a
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् 002c
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम 003a
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः 003c
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम 004a
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह 004c
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः 005a
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल 005c
पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः 005e
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् 006a
शूराणामपि पार्थानां हृदयानि चकम्पिरे 006c
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद 007a
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये 007c
चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय 007e
वैशम्पायन उवाच 008
कथयिष्यामि ते तात कथामेतां महात्मनः 008a
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् 008c
गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ 009a
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् 009c
युधिष्ठिरनियोगात्स जगामामितविक्रमः 010a
शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् 010c
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः 011a
महाबलो महाबाहुरर्जुनः कार्यसिद्धये 011c
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति 011e
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः 012a
त्वरया परया युक्तस्तपसे धृतनिश्चयः 012c
वनं कण्टकितं घोरमेक एवान्वपद्यत 012e
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् 013a
नानामृगगणाकीर्णं सिद्धचारणसेवितम् 013c
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् 014a
शङ्खानां पटहानां च शब्दः समभवद्दिवि 014c
पुष्पवर्षं च सुमहन्निपपात महीतले 015a
मेघजालं च विततं छादयामास सर्वतः 015c
अतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः 016a
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा 016c
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् 017a
नदीश्च बहुलावर्ता नीलवैडूर्यसन्निभाः 017c
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा 018a
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः 018c
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः 019a
पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् 019c
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा 020a
तपस्युग्रे वर्तमान उग्रतेजा महामनाः 020c
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः 021a
पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः 021c
द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् 021e
तृतीयमपि मासं स पक्षेणाहारमाचरन् 022a
शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् 022c
चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम् 023a
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः 023c
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः 023e
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः 024a
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः 024c
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् 025a
शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च 025c
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह 025e
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः 026a
उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः 026c
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् 027a
सन्तापयति नः सर्वानसौ साधु निवार्यताम् 027c
महेश्वर उवाच 028
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः 028a
अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् 028c
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः 029a
यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै 029c
वैशम्पायन उवाच 030
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः 030a
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् 030c