वैशम्पायन उवाच 001
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः 001a
संस्मृत्य मुनिसन्देशमिदं वचनमब्रवीत् 001c
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् 002a
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् 002c
स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः 003a
धनञ्जयं धर्मराजो रहसीदमुवाच ह 003c
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत 004a
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः 004c
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् 005a
सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः 005c
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः 006a
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते 006c
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा 007a
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः 007c
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा 008a
त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः 008c
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम 008e
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया 009a
तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते 009c
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः 010a
देवतानां यथाकालं प्रसादं प्रतिपालय 010c
तपसा योजयात्मानमुग्रेण भरतर्षभ 011a
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः 011c
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् 011e
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय 012a
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् 012c
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे 012e
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति 013a
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम् 013c
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः 014a
दीक्षितं विधिना तेन यतवाक्कायमानसम् 014c
अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः 014e
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरन्दरम् 015a
धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी 015c
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् 016a
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः 016c
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः 017a
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च 017c
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् 018a
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च 018c
क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि 018e
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् 019a
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् 019c
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय 020a
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि 020c
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् 021a
ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका 021c
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे 022a
रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः 022c
नैव नः पार्थ भोगेषु न धने नोत जीविते 023a
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि 023c
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते 024a
जीवितं मरणं चैव राज्यमैश्वर्यमेव च 024c
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव 024e
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् 025a
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत 025c
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः 025e
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः 026a
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः 026c
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः 027a
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः 027c
सोऽगच्छत्पर्वतं पुण्यमेकाह्नेव महामनाः 028a
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः 028c
हिमवन्तमतिक्रम्य गन्धमादनमेव च 029a
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः 029c
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः 030a
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा 030c
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् 031a
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् 031c
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः 032a
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी 032c
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः 032e
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः 033a
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् 033c
नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् 034a
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् 034c
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् 035a
तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् 035c
न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् 035e
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव 036a
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन 036c
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः 037a
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः 037c
ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे 038a
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् 038c
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव 039a
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय 039c
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् 039e
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः 040a
न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् 040c
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप 041a
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च 041c
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः 041e
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् 042a
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः 042c
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् 043a
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः 043c
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः 044a
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि 044c
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः 045a
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः 045c