वैशम्पायन उवाच 001
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः 001a
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः 001c
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् 002a
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् 002c
एवमेतन्महाबाहो यथा वदसि भारत 003a
इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद 003c
महापापानि कर्माणि यानि केवलसाहसात् 004a
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत 004c
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते 005a
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् 005c
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् 006a
आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे 006c
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् 007a
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् 007c
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः 008a
सर्व एव कृतास्त्राश्च सततं चाततायिनः 008c
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः 009a
संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् 009c
दुर्योधनहिते युक्ता न तथास्मासु भारत 010a
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे 010c
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः 011a
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः 011c
दुर्योधनेन ते वीरा मानिताश्च विशेषतः 012a
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः 012c
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च 013a
द्रोणस्य च महाबाहो कृपस्य च महात्मनः 013c
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः 014a
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् 014c
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः 015a
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः 015c
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः 016a
सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः 016c
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् 017a
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया 017c
न निद्रामधिगच्छामि चिन्तयानो वृकोदर 018a
अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् 018c
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः 019a
बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन 019c
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः 020a
आजगाम महायोगी व्यासः सत्यवतीसुतः 020c
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः 021a
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः 021c
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् 022a
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ 022c
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत 023a
यत्ते भयममित्रघ्न हृदि सम्परिवर्तते 023c
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना 024a
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय 024c
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् 025a
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः 025c
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम 026a
येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः 026c
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव 027a
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते 027c
यामवाप्य महाबाहुरर्जुनः साधयिष्यति 027e
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु 028a
वरुणं च धनेशं च धर्मराजं च पाण्डव 028c
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च 028e
ऋषिरेष महातेजा नारायणसहायवान् 029a
पुराणः शाश्वतो देवो विष्णोरंशः सनातनः 029c
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च 030a
समादाय महाबाहुर्महत्कर्म करिष्यति 030c
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् 031a
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते 031c
एकत्र चिरवासो हि न प्रीतिजननो भवेत् 032a
तापसानां च शान्तानां भवेदुद्वेगकारकः 032c
मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः 033a
बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् 033c
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः 034a
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् 034c
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः 035a
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत 035c
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः 036a
धारयामास मेधावी काले काले समभ्यसन् 036c
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः 037a
ययौ सरस्वतीतीरे काम्यकं नाम काननम् 037c
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा 038a
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा 038c
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः 039a
न्यविशन्त महात्मानः सामात्याः सपदानुगाः 039c
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः 040a
धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् 040c
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः 041a
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि 041c