भीमसेन उवाच 001
सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा 001a
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा 001c
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः 002a
फेनधर्मा महाराज फलधर्मा तथैव च 002c
निमेषादपि कौन्तेय यस्यायुरपचीयते 003a
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् 003c
यो नूनममितायुः स्यादथ वापि प्रमाणवित् 004a
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् 004c
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश 005a
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति 005c
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् 006a
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे 006c
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः 007a
अयातयित्वा वैराणि सोऽवसीदति गौरिव 007c
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् 008a
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः 008c
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव 009a
हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु 009c
हत्वा चेत्पुरुषो राजन्निकर्तारमरिन्दम 010a
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स सम्मितः 010c
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः 011a
येनाहमभिसन्तप्तो न नक्तं न दिवा शये 011c
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे 012a
आस्ते परमसन्तप्तो नूनं सिंह इवाशये 012c
योऽयमेकोऽभिमनुते सर्वाल्ँलोके धनुर्भृतः 013a
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति 013c
नकुलः सहदेवश्च वृद्धा माता च वीरसूः 014a
तवैव प्रियमिच्छन्त आसते जडमूकवत् 014c
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः 015a
अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः 015c
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन 016a
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः 016c
नेतः पापीयसी काचिदापद्राजन्भविष्यति 017a
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते 017c
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप 018a
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति 018c
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः 019a
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः 019c
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् 020a
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् 020c
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् 021a
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च 021c
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् 022a
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि 022c
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च 023a
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया 023c
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् 024a
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति 024c
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू 025a
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः 025c
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् 026a
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति 026c
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः 027a
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् 027c
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः 028a
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः 028c
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः 029a
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः 029c
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् 030a
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् 030c
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश 031a
परिमाणेन तान्पश्य तावतः परिवत्सरान् 031c
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः 032a
पूतिकानिव सोमस्य तथेदं क्रियतामिति 032c
अथ वानडुहे राजन्साधवे साधुवाहिने 033a
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते 033c
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया 034a
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् 034c