युधिष्ठिर उवाच 001
असंशयं भारत सत्यमेतद्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि 001a
न त्वा विगर्हे प्रतिकूलमेतन्ममानयाद्धि व्यसनं व आगात् 001c
अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् 002a
तन्मा शठः कितवः प्रत्यदेवीत्सुयोधनार्थं सुबलस्य पुत्रः 002c
महामायः शकुनिः पार्वतीयः सदा सभायां प्रवपन्नक्षपूगान् 003a
अमायिनं मायया प्रत्यदेवीत्ततोऽपश्यं वृजिनं भीमसेन 003c
अक्षान्हि दृष्ट्वा शकुनेर्यथावत्कामानुलोमानयुजो युजश्च 004a
शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्ति पुरुषस्य धैर्यम् 004c
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः 005a
न ते वाचं भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् 005c
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् 006a
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः 006c
त्वं चापि तद्वेत्थ धनञ्जयश्च पुनर्द्यूतायागतानां सभां नः 007a
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् 007c
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो 008a
अथापरं चाविदितं चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः 008c
त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराः स्म 009a
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं निश्चित्य तत्प्रतिजानीहि पार्थ 009c
चरैश्चेन्नोऽविदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् 010a
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः 010c
वयं चैवं भ्रातरः सर्व एव त्वया जिताः कालमपास्य भोगान् 011a
वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति 011c
तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे 012a
इत्थं च देशाननुसञ्चरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः 012c
सुयोधनश्चापि न शान्तिमिच्छन्भूयः स मन्योर्वशमन्वगच्छत् 013a
उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन् 013c
तं सन्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः 014a
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् 014c
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः 015a
बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतं भीम तदाभविष्यत् 015c
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः 016a
प्राप्तं तु कालं त्वभिपद्य पश्चात्किं मामिदानीमतिवेलमात्थ 016c
भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं विदित्वा 017a
यद्याज्ञसेनीं परिकृष्यमाणां सन्दृश्य तत्क्षान्तमिति स्म भीम 017c
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये 018a
कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः 018c
यदा हि पूर्वं निकृतो निकृत्या वैरं सपुष्पं सफलं विदित्वा 019a
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके 019c
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते 020a
मित्राणि चैनमतिरागाद्भजन्ते देवा इवेन्द्रमनुजीवन्ति चैनम् 020c
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च 021a
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति 021c