वैशम्पायन उवाच 001
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः 001a
निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् 001c
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् 002a
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने 002c
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा 003a
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः 003c
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् 004a
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् 004c
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः 005a
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे 005c
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् 006a
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना 006c
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः 007a
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते 007c
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् 008a
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत 008c
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् 009a
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ 009c
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि 010a
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् 010c
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः 011a
अवीराचरितां राजन्न बलस्थैर्निषेविताम् 011c
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः 012a
न चाहमभिनन्दामि न च माद्रीसुतावुभौ 012c
भवान्धर्मो धर्म इति सततं व्रतकर्शितः 013a
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् 013c
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् 014a
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् 014c
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् 015a
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे 015c
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः 016a
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः 016c
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् 017a
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि 017c
अथ वा वयमेवैतान्निहत्य भरतर्षभ 018a
आददीमहि गां सर्वां तथापि श्रेय एव नः 018c
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् 019a
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् 019c
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे 020a
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा 020c
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा 021a
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् 021c
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् 022a
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा 022c
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः 023a
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव 023c
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः 024a
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः 024c
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति 025a
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः 025c
सततं यश्च कामार्थी नेतरावनुतिष्ठति 026a
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते 026c
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् 027a
कामतो रममाणस्य मीनस्येवाम्भसः क्षये 027c
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः 028a
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा 028c
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः 029a
इतरेतरयोनी तौ विद्धि मेघोदधी यथा 029c
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते 030a
स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते 030c
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति 031a
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती 031c
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् 032a
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः 032c
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा 033a
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् 033c
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति 034a
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः 034c
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः 035a
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् 035c
तस्य नाशं विनाशं वा जरया मरणेन वा 036a
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते 036c
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च 037a
विषये वर्तमानानां या प्रीतिरुपजायते 037c
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् 037e
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च 038a
न धर्मपर एव स्यान्न चार्थपरमो नरः 038c
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा 038e
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् 039a
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः 039c
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् 040a
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः 040c
धर्मं चार्थं च कामं च यथावद्वदतां वर 041a
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः 041c
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् 042a
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन 042c
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् 043a
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः 043c
विदितश्चैव ते धर्मः सततं चरितश्च ते 044a
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् 044c
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् 045a
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च 045c
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् 046a
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे 046c
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते 047a
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् 047c
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् 048a
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना 048c
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः 049a
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ 049c
भैक्षचर्या न विहिता न च विट्शूद्रजीविका 050a
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् 050c
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः 051a
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि 051c
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् 052a
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः 052c
प्रजापालनसम्भूतं फलं तव न गर्हितम् 053a
एष ते विहितो राजन्धात्रा धर्मः सनातनः 053c
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि 054a
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते 054c
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः 055a
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् 055c
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन 056a
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् 056c
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् 057a
निकृत्या लभते राज्यमाहारमिव शल्यकः 057c
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः 058a
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ 058c
एवं बलवतः सर्वमिति बुद्ध्वा महीपते 059a
जहि शत्रून्महाबाहो परां निकृतिमास्थितः 059c
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः 060a
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः 060c
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि 061a
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव 061c
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा 062a
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी 062c
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता 063a
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः 063c
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः 064a
न तत्र विपणः कार्यः खरकण्डूयितं हि तत् 064c
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः 065a
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः 065c
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः 066a
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे 066c
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि 067a
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः 067c
सर्वथा संहतैरेव दुर्बलैर्बलवानपि 068a
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव 068c
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः 069a
अत्ति चैव तथैव त्वं सवितुः सदृशो भव 069c
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् 070a
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः 070c
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा 071a
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् 071c
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च 072a
कथायुक्ताः परिषदः पृथग्राजन्समागताः 072c
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते 073a
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् 073c
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि 074a
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् 074c
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् 075a
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः 075c
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः 076a
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः 076c
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन 077a
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर 077c
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा 078a
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा 078c
इति निर्वचनं लोके चिरं चरति भारत 079a
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते 079c
स भवान्रथमास्थाय सर्वोपकरणान्वितम् 080a
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् 080c
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् 081a
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः 081c
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा 081e
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा 082a
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल 082c
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् 083a
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् 083c
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत 084a
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे 084c
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च 085a
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे 085c