द्रौपद्युवाच 001
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन 001a
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् 001c
आर्ताहं प्रलपामीदमिति मां विद्धि भारत 002a
भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे 002c
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन 003a
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः 003c
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् 004a
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर 004c
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ 005a
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च 005c
उत्थानमभिजानन्ति सर्वभूतानि भारत 006a
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् 006c
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः 007a
अपि धाता विधाता च यथायमुदके बकः 007c
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः 008a
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा 008c
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा 009a
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि 009c
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि 010a
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् 010c
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन 010e
यश्च दिष्टपरो लोके यश्चायं हठवादकः 011a
उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते 011c
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् 012a
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि 012c
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् 013a
आसीत न चिरं जीवेदनाथ इव दुर्बलः 013c
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः 014a
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् 014c
यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत 015a
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् 015c
यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः 016a
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् 016c
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् 017a
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम 017c
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा 018a
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः 018c
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः 019a
विदधाति विभज्येह फलं पूर्वकृतं नृणाम् 019c
यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् 020a
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् 020c
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि 021a
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः 021c
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः 022a
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि 022c
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा 023a
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् 023c
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ 024a
अगारनगराणां हि सिद्धिः पुरुषहैतुकी 024c
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः 025a
धिया धीरो विजानीयादुपायं चास्य सिद्धये 025c
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये 026a
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः 026c
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् 027a
इदं त्वकुशलेनेति विशेषादुपलभ्यते 027c
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् 028a
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् 028c
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते 029a
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह 029c
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत 030a
पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते 030c
न चैवैतावता कार्यं मन्यन्त इति चापरे 031a
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः 031c
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः 031e
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः 032a
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् 032c
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः 032e
तथैव धाता भूतानामिष्टानिष्टफलप्रदः 033a
यदि न स्यान्न भूतानां कृपणो नाम कश्चन 033c
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः 034a
तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् 034c
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः 035a
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते 035c
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः 036a
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः 036c
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर 037a
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् 037c
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते 038a
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते 038c
अलक्ष्मीराविशत्येनं शयानमलसं नरम् 039a
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते 039c
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः 040a
धीरा नराः कर्मरता न तु निःसंशयं क्वचित् 040c
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् 041a
न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते 041c
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते 042a
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि 042c
अन्येषां कर्म सफलमस्माकमपि वा पुनः 043a
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् 043c
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत 044a
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् 044c
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः 045a
यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया 045c
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् 046a
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् 046c
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत 047a
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः 047c
सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा 047e
बहूनां समवाये हि भावानां कर्म सिध्यति 048a
गुणाभावे फलं न्यूनं भवत्यफलमेव वा 048c
अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत 048e
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये 049a
युनक्ति मेधया धीरो यथाशक्ति यथाबलम् 049c
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः 050a
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः 050c
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः 051a
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् 051c
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर 052a
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः 052c
उत्थानयुक्तः सततं परेषामन्तरैषणे 053a
आनृण्यमाप्नोति नरः परस्यात्मन एव च 053c
न चैवात्मावमन्तव्यः पुरुषेण कदाचन 054a
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत 054c
एवं संस्थितिका सिद्धिरियं लोकस्य भारत 055a
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः 055c
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् 056a
सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ 056c
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा 057a
तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे 057c
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् 058a
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर 058c