युधिष्ठिर उवाच 001
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः 001a
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे 001c
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत 002a
ददामि देयमित्येव यजे यष्टव्यमित्युत 002c
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् 003a
गृहानावसता कृष्णे यथाशक्ति करोमि तत् 003c
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् 004a
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च 004c
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् 004e
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति 005a
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः 005c
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः 006a
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः 006c
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः 007a
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् 007c
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि 008a
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः 008c
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः 009a
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते 009c
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः 010a
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् 010c
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः 011a
अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः 011c
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् 012a
शापानुग्रहणे शक्तान्देवैरपि गरीयसः 012c
एते हि धर्ममेवादौ वर्णयन्ति सदा मम 013a
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः 013c
अतो नार्हसि कल्याणि धातारं धर्ममेव च 014a
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च 014c
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति 015a
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः 015c
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् 016a
एतावान्मन्यते बालो मोहमन्यत्र गच्छति 016c
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते 017a
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते 017c
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः 018a
कामलोभानुगो मूढो नरकं प्रतिपद्यते 018c
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते 019a
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते 019c
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् 020a
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति 020c
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः 021a
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः 021c
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् 022a
सैव नौः सागरस्येव वणिजः पारमृच्छतः 022c
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः 023a
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते 023c
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् 024a
विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः 024c
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च 025a
दानमार्जवमेतानि यदि स्युरफलानि वै 025c
नाचरिष्यन्परे धर्मं परे परतरे च ये 026a
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः 026c
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः 027a
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः 027c
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे 028a
धर्मं ते ह्याचरन्कृष्णे तद्धि धर्म सनातनम् 028c
स चायं सफलो धर्मो न धर्मोऽफल उच्यते 029a
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा 029c
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् 030a
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् 030c
एतावदेव पर्याप्तमुपमानं शुचिस्मिते 031a
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति 031c
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः 032a
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा 032c
कर्मणामुत पुण्यानां पापानां च फलोदयः 033a
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि 033c
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः 034a
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः 034c
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः 035a
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः 035c
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः 036a
यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता 036c
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् 037a
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः 037c
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु 038a
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज 038c
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः 039a
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी 039c
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् 040a
उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन 040c