द्रौपद्युवाच 001
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव 001a
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः 001c
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च 002a
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् 002c
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् 003a
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः 003c
न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत 004a
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह 004c
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते 005a
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः 005c
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह 006a
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः 006c
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः 007a
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति 007c
अन्यथा हि नरव्याघ्र नित्यदा धर्ममेव ते 008a
बुद्धिः सततमन्वेति छायेव पुरुषं निजा 008c
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः 009a
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत 009c
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् 010a
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे 010c
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः 011a
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत 011c
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि 012a
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते 012c
यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते 013a
तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि 013c
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये 014a
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा 014c
अस्मिन्नपि महारण्ये विजने दस्युसेविते 015a
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति 015c
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः 016a
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः 016c
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये 017a
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः 017c
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः 018a
कथमक्षव्यसनजा बुद्धिरापतिता तव 018c
अतीव मोहमायाति मनश्च परिदूयते 019a
निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् 019c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 020a
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा 020c
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये 021a
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् 021c
यथा दारुमयी योषा नरवीर समाहिता 022a
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः 022c
आकाश इव भूतानि व्याप्य सर्वाणि भारत 023a
ईश्वरो विदधातीह कल्याणं यच्च पापकम् 023c
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः 024a
ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः 024c
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः 025a
धातुरादेशमन्वेति तन्मयो हि तदर्पणः 025c
नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन 026a
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः 026c
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः 027a
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च 027c
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः 028a
धातुरेवं वशं यान्ति सर्वभूतानि भारत 028c
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः 029a
व्याप्य भूतानि चरते न चायमिति लक्ष्यते 029c
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् 030a
येन कारयते कर्म शुभाशुभफलं विभुः 030c
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः 031a
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया 031c
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः 032a
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 032c
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च 033a
अन्यथैव प्रभुस्तानि करोति विकरोति च 033c
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः 034a
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् 034c
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः 035a
हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर 035c
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः 036a
क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव 036c
न मातृपितृवद्राजन्धाता भूतेषु वर्तते 037a
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः 037c
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् 038a
अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया 038c
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने 039a
धातारं गर्हये पार्थ विषमं योऽनुपश्यति 039c
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि 040a
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते 040c
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति 041a
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः 041c
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति 042a
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् 042c