युधिष्ठिर उवाच 001
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः 001a
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ 001c
यो हि संहरते क्रोधं भावस्तस्य सुशोभने 002a
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे 002c
तस्याभावाय भवति क्रोधः परमदारुणः 002e
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते 003a
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् 003c
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि 004a
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते 004c
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् 005a
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा 005c
हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि 006a
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् 006c
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः 007a
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् 007c
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् 008a
एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते 008c
आत्मानं च परं चैव त्रायते महतो भयात् 009a
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः 009c
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः 010a
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः 010c
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः 011a
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् 011c
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति 012a
स नाशयित्वा क्लेष्टारं परलोके च नन्दति 012c
तस्माद्बलवता चैव दुर्बलेन च नित्यदा 013a
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता 013c
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः 014a
क्षमावतो जयो नित्यं साधोरिह सतां मतम् 014c
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता 015a
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् 015c
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि 015e
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः 016a
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् 016c
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते 017a
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः 017c
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति 018a
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति 018c
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि 019a
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः 019c
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः 020a
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा 020c
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते 021a
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् 021c
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते 022a
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति 022c
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् 023a
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् 023c
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् 024a
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते 024c
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः 025a
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः 025c
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः 026a
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् 026c
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् 027a
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः 027c
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् 028a
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च 028c
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते 029a
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने 029c
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे 030a
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च 030c
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः 031a
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते 031c
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने 032a
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् 032c
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा 033a
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः 033c
प्रभाववानपि नरस्तस्य लोकाः सनातनाः 034a
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति 034c
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् 035a
गीताः क्षमावता कृष्णे काश्यपेन महात्मना 035c
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् 036a
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति 036c
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च 037a
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् 037c
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् 038a
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् 038c
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् 039a
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः 039c
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् 040a
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः 040c
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा 040e
क्षन्तव्यमेव सततं पुरुषेण विजानता 041a
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा 041c
क्षमावतामयं लोकः परश्चैव क्षमावताम् 042a
इह सम्मानमृच्छन्ति परत्र च शुभां गतिम् 042c
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा 043a
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता 043c
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् 044a
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः 044c
पितामहः शान्तनवः शमं सम्पूजयिष्यति 045a
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः 045c
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः 045e
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च 046a
पितामहश्च नो व्यासः शमं वदति नित्यशः 046c
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति 047a
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति 047c
कालोऽयं दारुणः प्राप्तो भरतानामभूतये 048a
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि 048c
सुयोधनो नार्हतीति क्षमामेवं न विन्दति 049a
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा 049c
एतदात्मवतां वृत्तमेष धर्मः सनातनः 050a
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा 050c