द्रौपद्युवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च 001c
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् 002a
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः 002c
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत 003a
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते 003c
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् 004a
करिष्यामि हि तत्सर्वं यथावदनुशासनम् 004c
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः 005a
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते 005c
प्रह्लाद उवाच 006
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा 006a
इति तात विजानीहि द्वयमेतदसंशयम् 006c
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति 007a
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च 007c
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन 008a
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता 008c
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् 009a
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः 009c
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च 010a
भोजनान्यथ पानानि सर्वोपकरणानि च 010c
आददीरन्नधिकृता यथाकाममचेतसः 011a
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् 011c
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन 012a
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् 012c
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि 013a
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः 013c
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः 014a
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः 014c
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् 015a
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते 015c
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् 016a
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् 016c
अस्थाने यदि वा स्थाने सततं रजसावृतः 017a
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा 017c
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः 018a
प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा 018c
सोऽवमानादर्थहानिमुपालम्भमनादरम् 019a
सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः 019c
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् 020a
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि 020c
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति 021a
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 021c
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् 022a
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् 022c
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् 022e
काले मृदुर्यो भवति काले भवति दारुणः 023a
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च 023c
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् 024a
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः 024c
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि 025a
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः 025c
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् 026a
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै 026c
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् 027a
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् 027c
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् 028a
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् 028c
अजानता भवेत्कश्चिदपराधः कृतो यदि 029a
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया 029c
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् 030a
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः 030c
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः 031a
नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते 031c
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः 031e
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः 032a
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते 032c
द्रौपद्युवाच 033
तदहं तेजसः कालं तव मन्ये नराधिप 033a
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु 033c
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति 034a
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि 034c
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः 035a
काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः 035c