वैशम्पायन उवाच 001
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया 001a
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः 001c
प्रिया च दर्शनीया च पण्डिता च पतिव्रता 002a
ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् 002c
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन 003a
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः 003c
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् 004a
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन 004c
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः 004e
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः 005a
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा 005c
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः 006a
ईदृशं दुःखमानीय मोदते पापपूरुषः 006c
चतुर्णामेव पापानामश्रु वै नापतत्तदा 007a
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि 007c
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 008a
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च 008c
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम 009a
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् 009c
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् 010a
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् 010c
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् 011a
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् 011c
यदपश्यं सभायां त्वां राजभिः परिवारितम् 012a
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे 012c
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् 013a
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत 013c
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा 014a
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् 014c
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः 015a
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् 015c
यतीनामगृहाणां ते तथैव गृहमेधिनाम् 016a
दीयते भोजनं राजन्नतीव गुणवत्प्रभो 016c
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे 016e
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः 017a
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः 017c
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः 018a
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः 018c
भीमसेनमिमं चापि दुःखितं वनवासिनम् 019a
ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते 019c
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत 020a
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते 020c
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा 021a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 021c
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः 022a
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः 022c
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना 023a
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः 023c
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः 024a
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे 024c
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः 025a
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते 025c
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् 026a
न च ते वर्धते मन्युस्तेन मुह्यामि भारत 026c
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् 027a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 027c
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः 028a
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः 028c
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः 029a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते 029c
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे 030a
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते 030c
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर 031a
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते 031c
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः 032a
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते 032c
नूनं च तव नैवास्ति मन्युर्भरतसत्तम 033a
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः 033c
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् 034a
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् 034c
यो न दर्शयते तेजः क्षत्रियः काल आगते 035a
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत 035c
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन 036a
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः 036c
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति 037a
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति 037c