वैशम्पायन उवाच 001
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु 001a
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत 001c
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः 002a
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः 002c
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः 003a
आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः 003c
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् 004a
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत 004c
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् 005a
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् 005c
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् 006a
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् 006c
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः 007a
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह 007c
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः 008a
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया 008c
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम 009a
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव 009c
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह 010a
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ 010c
नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम् 011a
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान् 011c
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् 012a
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् 012c
अनूनमासीदसुरस्य कामैर्वैरोचनेः श्रीरपि चाक्षयासीत् 013a
लब्ध्वा महीं ब्राह्मणसम्प्रयोगात्तेष्वाचरन्दुष्टमतो व्यनश्यत् 013c
नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय 014a
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतः 014c
कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् 015a
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् 015c
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् 016a
तौ यदा चरतः सार्धमथ लोकः प्रसीदति 016c
यथा हि सुमहानग्निः कक्षं दहति सानिलः 017a
तथा दहति राजन्यो ब्राह्मणेन समं रिपून् 017c
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् 018a
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये 018c
अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय 019a
यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय 019c
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर 020a
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः 020c
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् 021a
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् 021c
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः 022a
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् 022c
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः 023a
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः 023c
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः 024a
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः 024c
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः 025a
अजातशत्रुमानर्चुः पुरन्दरमिवर्षयः 025c