वैशम्पायन उवाच 001
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् 001a
विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु 001c
यतींश्च सर्वान्स मुनींश्च राजा तस्मिन्वने मूलफलैरुदग्रैः 002a
द्विजातिमुख्यानृषभः कुरूणां सन्तर्पयामास महानुभावः 002c
इष्टीश्च पित्र्याणि तथाग्रियाणि महावने वसतां पाण्डवानाम् 003a
पुरोहितः सर्वसमृद्धतेजाश्चकार धौम्यः पितृवत्कुरूणाम् 003c
अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम 004a
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् 004c
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च 005a
संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः 005c
तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनोऽमी 006a
भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य 006c
मार्कण्डेय उवाच 007
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः 007a
तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि 007c
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् 008a
धन्वी चरन्पार्थ पुरा मयैव दृष्टो गिरेरृष्यमूकस्य सानौ 008c
सहस्रनेत्रप्रतिमो महात्मा मयस्य जेत नमुचेश्च हन्ता 009a
पितुर्निदेशादनघः स्वधर्मं वने वासं दाशरथिश्चकार 009c
स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः 010a
विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् 010c
नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य 011a
सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम् 011c
अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूषराजम् 012a
विहाय राष्ट्राणि वसूनि चैव नेशे बलस्येति चरेदधर्मम् 012c
धात्रा विधिर्यो विहितः पुराणस्तं पूजयन्तो नरवर्य सन्तः 013a
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् 013c
महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र 014a
स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम् 014c
सर्वाणि भूतानि नरेन्द्र पश्य यथा यथावद्विहितं विधात्रा 015a
स्वयोनितस्तत्कुरुते प्रभावान्नेशे बलस्येति चरेदधर्मम् 015c
सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य 016a
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ 016c
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य 017a
ततः श्रियं तेजसा स्वेन दीप्तामादास्यसे पार्थिव कौरवेभ्यः 017c
वैशम्पायन उवाच 018
तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्भिः 018a
आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः 018c