वैशम्पायन उवाच 001
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः 001a
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः 001c
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने 002a
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् 002c
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् 003a
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि 003c
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः 004a
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् 004c
अर्जुन उवाच 005
भवानेव महर्षीणां वृद्धानां पर्युपासिता 005a
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन 005c
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ 006a
द्वैपायनप्रभृतयो नारदश्च महातपाः 006c
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी 007a
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि 007c
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः 008a
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव 008c
त्वमेव राजञ्जानासि श्रेयःकारणमेव च 009a
यत्रेच्छसि महाराज निवासं तत्र कुर्महे 009c
इदं द्वैतवनं नाम सरः पुण्यजनोचितम् 010a
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् 010c
अत्रेमा द्वादश समा विहरेमेति रोचये 011a
यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् 011c
युधिष्ठिर उवाच 012
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् 012a
गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः 012c
वैशम्पायन उवाच 013
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः 013a
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः 013c
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः 014a
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः 014c
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् 015a
तपस्विनः सत्यशीलाः शतशः संशितव्रताः 015c
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह 016a
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः 016c
तच्छालतालाम्रमधूकनीपकदम्बसर्जार्जुनकर्णिकारैः 017a
तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श 017c
महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः 018a
मयूरदात्यूहचकोरसङ्घास्तस्मिन्वने काननकोकिलाश्च 018c
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् 019a
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श 019c
मनोरमां भोगवतीमुपेत्य धृतात्मनां चीरजटाधराणाम् 020a
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् 020c
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् 021a
विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः 021c
तं सत्यसन्धं सहिताभिपेतुर्दिदृक्षवश्चारणसिद्धसङ्घाः 022a
वनौकसश्चापि नरेन्द्रसिंहं मनस्विनं सम्परिवार्य तस्थुः 022c
स तत्र सिद्धानभिवाद्य सर्वान्प्रत्यर्चितो राजवद्देववच्च 023a
विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः 023c
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य 024a
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा 024c
भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम् 025a
विमुच्य वाहानवरुह्य सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः 025c
लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरुग्रधन्विभिः 026a
बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव 026c