वैशम्पायन उवाच 001
तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च 001a
यमौ च कृष्णा च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान् 001c
आस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः 002a
हिरण्यनिष्कान्वसनानि गाश्च प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः 002c
प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि वर्माणि शरांश्च पीतान् 003a
मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः 003c
ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च 004a
तदिन्द्रसेनस्त्वरितं प्रगृह्य जघन्यमेवोपययौ रथेन 004c
ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्त्वाः 005a
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम् 005c
स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः 006a
तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम् 006c
पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा 007a
ते चापि तस्मिन्भरतप्रबर्हे तदा बभूवुः पितरीव पुत्राः 007c
ततः समासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः 008a
हा नाथ हा धर्म इति ब्रुवन्तो ह्रिया च सर्वेऽश्रुमुखा बभूवुः 008c
वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् 009a
पौरानिमाञ्जानपदांश्च सर्वान्हित्वा प्रयातः क्व नु धर्मराजः 009c
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं ससौबलं पापमतिं च कर्णम् 010a
अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः 010c
स्वयं निवेश्याप्रतिमं महात्मा पुरं महद्देवपुरप्रकाशम् 011a
शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क्व नु धर्मराजः 011c
चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम् 012a
तां देवगुप्तामिव देवमायां हित्वा प्रयातः क्व नु धर्मराजः 012c
तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच 013a
आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि 013c
द्विजातिमुख्याः सहिताः पृथक्च भवद्भिरासाद्य तपस्विनश्च 014a
प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः 014c
इत्येवमुक्ते वचनेऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् 015a
मुदाभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतां वरिष्ठम् 015c
आमन्त्र्य पार्थं च वृकोदरं च धनञ्जयं याज्ञसेनीं यमौ च 016a
प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथास्वम् 016c