वासुदेव उवाच 001
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः 001a
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् 001c
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः 002a
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः 002c
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह 003a
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् 003c
अथ दानवसङ्घास्ते विकृताननमूर्धजाः 004a
उदक्रोशन्महाराज विष्ठिते मयि भारत 004c
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे 005a
अयोजयं तद्वधाय ततः शब्द उपारमत् 005c
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः 006a
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः 006c
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् 007a
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् 007c
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत 008a
नादयामासुरसुरास्ते चापि निहता मया 008c
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत 009a
सौभं कामगमं वीर मोहयन्मम चक्षुषी 009c
ततो लोकान्तकरणो दानवो वानराकृतिः 010a
शिलावर्षेण सहसा महता मां समावृणोत् 010c
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः 011a
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् 011c
ततोऽहं पर्वतचितः सहयः सहसारथिः 012a
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः 012c
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा 013a
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः 013c
ततो हाहाकृतं सर्वमभूत्किल विशां पते 014a
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि 014c
ततो विषण्णमनसो मम राजन्सुहृज्जनाः 015a
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः 015c
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि 016a
एवं विजितवान्वीर पश्चादश्रौषमच्युत 016c
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् 017a
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् 017c
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः 018a
हया मम महाराज वेपमाना इवाभवन् 018c
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् 019a
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः 019c
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप 020a
साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् 020c
अलं कृष्णावमन्यैनं साधु यत्नं समाचर 021a
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर 021c
जहि शाल्वं महाबाहो मैनं जीवय केशव 022a
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् 022c
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा 023a
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः 023c
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो 024a
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः 024c
नैष मार्दवसाध्यो वै मतो नापि सखा तव 025a
येन त्वं योधितो वीर द्वारका चावमर्दिता 025c
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः 026a
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् 026c
वधाय शाल्वराजस्य सौभस्य च निपातने 027a
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति 027c
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् 028a
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् 028c
यक्षाणां राक्षसानां च दानवानां च संयुगे 029a
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् 029c
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् 030a
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् 030c
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम 031a
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा 031c
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा 032a
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः 032c
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् 033a
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् 033c
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् 034a
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा 034c
तस्मिन्निपतिते सौभे चक्रमागात्करं मम 035a
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् 035c
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे 036a
द्विधा चकार सहसा प्रजज्वाल च तेजसा 036c
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः 037a
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः 037c
ततोऽहं समवस्थाप्य रथं सौभसमीपतः 038a
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् 038c
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् 039a
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः 039c
एवं निहत्य समरे शाल्वं सौभं निपात्य च 040a
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् 040c
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् 041a
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः 041c
वैशम्पायन उवाच 042
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः 042a
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः 042c
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् 043a
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः 043c
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् 044a
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः 044c
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा 045a
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् 045c
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः 046a
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा 046c
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् 047a
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् 047c
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा 048a
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत 048c
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः 049a
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् 049c
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः 050a
आसीन्महात्मनां तेषां काम्यके भरतर्षभ 050c
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः 051a
शशास पुरुषान्काले रथान्योजयतेति ह 051c