वासुदेव उवाच 001
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः 001a
युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः 001c
ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान्मुसलानसींश्च 002a
चिक्षेप रोषान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाङ्क्षी 002c
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव 003a
द्विधा त्रिधा चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव 003c
ततः शतसहस्रेण शराणां नतपर्वणाम् 004a
दारुकं वाजिनश्चैव रथं च समवाकिरत् 004c
ततो मामब्रवीद्वीर दारुको विह्वलन्निव 005a
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः 005c
इति तस्य निशम्याहं सारथेः करुणं वचः 006a
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् 006c
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये 007a
अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः 007c
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् 008a
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् 008c
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे 009a
अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् 009c
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् 010a
त्वरितो रथमभ्येत्य सौहृदादिव भारत 010c
आहुकस्य वचो वीर तस्यैव परिचारकः 011a
विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर 011c
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः 012a
केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् 012c
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन 013a
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् 013c
तदलं साधु युद्धेन निवर्तस्व जनार्दन 014a
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव 014c
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः 015a
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा 015c
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् 016a
जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः 016c
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन 017a
तेषु रक्षां समाधाय प्रयातः सौभपातने 017c
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा 018a
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् 018c
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः 018e
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन 019a
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् 019c
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः 020a
बलदेवमुखाः सर्वे इति मे निश्चिता मतिः 020c
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः 021a
सुविह्वलो महाराज पुनः शाल्वमयोधयम् 021c
ततोऽपश्यं महाराज प्रपतन्तमहं तदा 022a
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् 022c
तस्य रूपं प्रपततः पितुर्मम नराधिप 023a
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् 023c
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः 024a
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः 024c
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम 025a
मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् 025c
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् 026a
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत 026c
प्रसार्य बाहू पततः प्रसार्य चरणावपि 027a
रूपं पितुरपश्यं तच्छकुनेः पततो यथा 027c
तं पतन्तं महाबाहो शूलपट्टिशपाणयः 028a
अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् 028c
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञामहं तदा वीर महाविमर्दे 029a
न तत्र सौभं न रिपुं न शाल्वं पश्यामि वृद्धं पितरं न चापि 029c
ततो ममासीन्मनसि मायेयमिति निश्चितम् 030a
प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् 030c