वासुदेव उवाच 001
आनर्तनगरं मुक्तं ततोऽहमगमं तदा 001a
महाक्रतौ राजसूये निवृत्ते नृपते तव 001c
अपश्यं द्वारकां चाहं महाराज हतत्विषम् 002a
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् 002c
अनभिज्ञेयरूपाणि द्वारकोपवनानि च 003a
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् 003c
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् 004a
किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् 004c
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् 005a
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम 005c
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः 006a
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् 006c
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् 007a
राजानमाहुकं चैव तथैवानकदुन्दुभिम् 007c
सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा 007e
अप्रमादः सदा कार्यो नगरे यादवर्षभाः 008a
शाल्वराजविनाशाय प्रयातं मां निबोधत 008c
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति 009a
सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः 009c
त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी 009e
ते मयाश्वासिता वीरा यथावद्भरतर्षभ 010a
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् 010c
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः 011a
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् 011c
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः 012a
प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप 012c
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः 013a
कॢप्तेन चतुरङ्गेण बलेन जितकाशिना 013c
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् 014a
सरांसि सरितश्चैव मार्त्तिकावतमासदम् 014c
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् 015a
प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् 015c
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः 016a
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् 016c
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर 017a
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः 017c
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः 018a
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् 018c
स चापि पापप्रकृतिर्दैतेयापसदो नृप 019a
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः 019c
सैनिकान्मम सूतं च हयांश्च समवाकिरत् 020a
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत 020c
ततः शतसहस्राणि शराणां नतपर्वणाम् 021a
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः 021c
ते हयान्मे रथं चैव तदा दारुकमेव च 022a
छादयामासुरसुरा बाणैर्मर्मविभेदिभिः 022c
न हया न रथो वीर न यन्ता मम दारुकः 023a
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे 023c
ततोऽहमपि कौरव्य शराणामयुतान्बहून् 024a
अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् 024c
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत 025a
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् 025c
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः 026a
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः 026c
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे 027a
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव 027c
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत 028a
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे 028c
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः 029a
नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः 029c
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् 030a
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् 030c
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा 031a
मायायुद्धेन महता योधयामास मां युधि 031c
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः 032a
पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि 032c
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् 033a
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् 033c
ततोऽभवत्तम इव प्रभातमिव चाभवत् 034a
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत 034c
एवं मायां विकुर्वाणो योधयामास मां रिपुः 035a
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् 035c
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः 035e
ततो व्योम महाराज शतसूर्यमिवाभवत् 036a
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् 036c
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः 037a
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् 037c
ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् 037e
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् 038a
लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् 038c