वासुदेव उवाच 001
एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे 001a
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा 001c
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् 002a
युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा 002c
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः 003a
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः 003c
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् 004a
कश्मलाभिहतो वीर ततोऽहमपयातवान् 004c
स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया 005a
पश्य मे हयसंयाने शिक्षां केशवनन्दन 005c
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः 006a
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् 006c
एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे 007a
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा 007c
मण्डलानि विचित्राणि यमकानीतराणि च 008a
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः 008c
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः 009a
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः 009c
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् 010a
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् 010c
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ 011a
चकार नातियत्नेन तदद्भुतमिवाभवत् 011c
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् 012a
यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् 012c
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् 013a
भूय एव महाबाहो प्रययौ हयसम्मतः 013c
ततो बाणान्बहुविधान्पुनरेव स सौभराट् 014a
मुमोच तनये वीरे मम रुक्मिणिनन्दने 014c
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा 015a
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् 015c
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् 016a
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् 016c
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः 017a
ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः 017c
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः 018a
शिरस्युरसि वक्त्रे च स मुमोह पपात च 018c
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते 019a
रौक्मिणेयोऽपरं बाणं सन्दधे शत्रुनाशनम् 019c
तमर्चितं सर्वदाशार्हपूगैराशीर्भिरर्कज्वलनप्रकाशम् 020a
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् 020c
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः 021a
नारदं प्रेषयामासुः श्वसनं च महाबलम् 021c
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् 022a
नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन 022c
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे 023a
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् 023c
मृत्युरस्य महाबाहो रणे देवकिनन्दनः 024a
कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति 024c
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् 025a
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् 025c
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः 026a
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः 026c
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः 027a
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा 027c