वासुदेव उवाच 001
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे 001a
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः 001c
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा 002a
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् 002c
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः 003a
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः 003c
नातिदूरापयाते तु रथे रथवरप्रणुत् 004a
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् 004c
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः 005a
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते 005c
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे 006a
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् 006c
सूत उवाच 007
जानार्दने न मे मोहो नापि मे भयमाविशत् 007a
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन 007c
सोऽपयामि शनैर्वीर बलवानेष पापकृत् 008a
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी 008c
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् 009a
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् 009c
एकश्चासि महाबाहो बहवश्चापि दानवाः 010a
नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् 010c
वासुदेव उवाच 011
एवं ब्रुवति सूते तु तदा मकरकेतुमान् 011a
उवाच सूतं कौरव्य निवर्तय रथं पुनः 011c
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन 012a
व्यपयानं रणात्सौते जीवतो मम कर्हिचित् 012c
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् 013a
यो वा निपतितं हन्ति तवास्मीति च वादिनम् 013c
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च 014a
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा 014c
त्वं च सूतकुले जातो विनीतः सूतकर्मणि 015a
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके 015c
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे 016a
अपयानं पुनः सौते मैवं कार्षीः कथञ्चन 016c
अपयातं हतं पृष्ठे भीतं रणपलायिनम् 017a
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः 017c
केशवस्याग्रजो वापि नीलवासा मदोत्कटः 018a
किं वक्ष्यति महाबाहुर्बलदेवः समागतः 018c
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः 019a
अपयातं रणात्सौते साम्बश्च समितिञ्जयः 019c
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ 020a
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे 020c
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् 021a
स्त्रियश्च वृष्णिवीराणां किं मां वक्ष्यन्ति सङ्गताः 021c
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् 022a
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति 022c
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा 023a
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः 023c
भारं हि मयि सन्न्यस्य यातो मधुनिहा हरिः 024a
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः 024c
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः 025a
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज 025c
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः 026a
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् 026c
उपयातं दुराधर्षं शङ्खचक्रगदाधरम् 027a
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् 027c
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः 028a
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् 028c
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः 029a
त्वयापनीतो विवशो न जीवेयं कथञ्चन 029c
स निवर्त रथेनाशु पुनर्दारुकनन्दन 030a
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन 030c
न जीवितमहं सौते बहु मन्ये कदाचन 031a
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः 031c
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् 032a
अपयातं रणं हित्वा यथा कापुरुषं तथा 032c
न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज 033a
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् 033c