वासुदेव उवाच 001
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ 001a
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् 001c
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् 002a
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् 002c
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः 003a
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् 003c
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् 004a
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः 004c
नास्य विक्षिपतश्चापं सन्दधानस्य चासकृत् 005a
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे 005c
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य 006a
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतरूपमग्र्यम् 006c
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी 007a
वित्रासयन्राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः 007c
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः 008a
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप 008c
अभियानं तु वीरेण प्रद्युम्नेन महाहवे 009a
नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह 009c
स रोषमदमत्तो वै कामगादवरुह्य च 010a
प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः 010c
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः 011a
समेता ददृशुर्लोका बलिवासवयोरिव 011c
तस्य मायामयो वीर रथो हेमपरिष्कृतः 012a
सध्वजः सपताकश्च सानुकर्षः सतूणवान् 012c
स तं रथवरं श्रीमान्समारुह्य किल प्रभो 013a
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः 013c
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे 014a
प्रद्युम्नो भुजवेगेन शाल्वं सम्मोहयन्निव 014c
स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् 015a
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम 015c
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः 016a
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे 016c
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः 017a
बिभेद हृदयं पत्री स पपात मुमोह च 017c
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि 018a
सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् 018c
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते 019a
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप 019c
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् 020a
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः 020c
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः 021a
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा 021c
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् 022a
ननाद सिंहनादं वै नादेनापूरयन्महीम् 022c
ततो मोहं समापन्ने तनये मम भारत 023a
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् 023c
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः 024a
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे 024c