वासुदेव उवाच 001
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा 001a
प्रभूतनरनागेन बलेनोपविवेश ह 001c
समे निविष्टा सा सेना प्रभूतसलिलाशये 002a
चतुरङ्गबलोपेता शाल्वराजाभिपालिता 002c
वर्जयित्वा श्मशानानि देवतायतनानि च 003a
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् 003c
अनीकानां विभागेन पन्थानः षट्कृताभवन् 004a
प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप 004c
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् 005a
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् 005c
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् 006a
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् 006c
सन्निवेश्य च कौरव्य द्वारकायां नरर्षभ 007a
अभिसारयामास तदा वेगेन पतगेन्द्रवत् 007c
तदापतन्तं सन्दृश्य बलं शाल्वपतेस्तदा 008a
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः 008c
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव 009a
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः 009c
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः 010a
संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः 010c
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे 011a
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् 011c
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् 012a
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् 012c
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः 013a
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः 013c
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह 014a
मुमोच मायाविहितं शरजालं महत्तरम् 014c
ततो मायामयं जालं माययैव विदार्य सः 015a
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत 015c
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः 016a
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः 016c
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ 017a
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली 017c
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः 018a
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् 018c
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् 019a
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः 019c
तया त्वभिहतो राजन्वेगवानपतद्भुवि 020a
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः 020c
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे 021a
प्रविश्य महतीं सेनां योधयामास मे सुतः 021c
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः 022a
महारथः समाज्ञातो महाराज महाधनुः 022c
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः 023a
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् 023c
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः 024a
विनदन्तौ महाराज सिंहाविव महाबलौ 024c
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् 025a
अभिमन्त्र्य महास्त्रेण सन्दधे शत्रुनाशनम् 025c
स विविन्ध्याय सक्रोधः समाहूय महारथः 026a
चिक्षेप मे सुतो राजन्स गतासुरथापतत् 026c
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् 027a
कामगेन स सौभेन शाल्वः पुनरुपागमत् 027c
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् 028a
दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् 028c
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् 029a
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् 029c
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि 030a
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् 030c
अहं सौभपतेः सेनामायसैर्भुजगैरिव 031a
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः 031c
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति 032a
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति 032c
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन 033a
विष्ठितं तद्बलं वीर युयुधे च यथासुखम् 033c