युधिष्ठिर उवाच 001
वासुदेव महाबाहो विस्तरेण महामते 001a
सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः 001c
वासुदेव उवाच 002
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम् 002a
उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् 002c
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन 003a
शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः 003c
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् 004a
अभिसारेण सर्वेण तत्र युद्धमवर्तत 004c
पुरी समन्ताद्विहिता सपताका सतोरणा 005a
सचक्रा सहुडा चैव सयन्त्रखनका तथा 005c
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा 006a
सकचग्रहणी चैव सोल्कालातावपोथिका 006c
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका 007a
समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला 007c
सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा 008a
लोहचर्मवती चापि साग्निः सहुडशृङ्गिका 008c
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ 009a
द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः 009c
पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने 010a
अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे 010c
मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता 011a
उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः 011c
आघोषितं च नगरे न पातव्या सुरेति ह 012a
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः 012c
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः 013a
इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः 013c
आनर्ताश्च तथा सर्वे नटनर्तकगायनाः 014a
बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चयान् 014c
सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः 015a
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः 015c
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः 016a
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः 016c
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् 017a
प्रकृत्या चायुधोपेतं विशेषेण तदानघ 017c
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् 018a
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा 018c
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते 019a
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे 019c
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव 020a
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् 020c
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् 021a
कृतापदानं च तदा बलमासीन्महाभुज 021c
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी 022a
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः 022c
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः 023a
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन 023c