युधिष्ठिर उवाच 001
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन 001a
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः 001c
कृष्ण उवाच 002
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ 002a
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् 002c
महातेजा महाबाहुर्यः स राजा महायशाः 003a
दमघोषात्मजो वीरः शिशुपालो मया हतः 003c
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति 004a
स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् 004c
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः 005a
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत 005c
स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः 006a
आगतः कामगं सौभमारुह्यैव नृशंसकृत् 006c
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा 007a
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः 007c
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः 008a
वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः 008c
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् 009a
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः 009c
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् 010a
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे 010c
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति 011a
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् 011c
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् 012a
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् 012c
मम पापस्वभावेन भ्राता येन निपातितः 013a
शिशुपालो महीपालस्तं वधिष्ये महीतले 013c
भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि 014a
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् 014c
एवमादि महाराज विलप्य दिवमास्थितः 015a
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन 015c
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः 016a
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः 016c
ततोऽहमपि कौरव्य रोषव्याकुललोचनः 017a
निश्चित्य मनसा राजन्वधायास्य मनो दधे 017c
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव 018a
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः 018c
ततः सौभवधायाहं प्रतस्थे पृथिवीपते 019a
स मया सागरावर्ते दृष्ट आसीत्परीप्सता 019c
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप 020a
आहूय शाल्वं समरे युद्धाय समवस्थितः 020c
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह 021a
वशीभूताश्च मे सर्वे भूतले च निपातिताः 021c
एतत्कार्यं महाबाहो येनाहं नागमं तदा 022a
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् 022c