वासुदेव उवाच 001
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप 001a
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा 001c
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः 002a
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च 002c
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् 003a
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च 003c
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव 004a
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो 004c
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः 005a
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा 005c
अभक्षितविनाशं च देवनेन विशां पते 006a
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् 006c
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् 007a
व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः 007c
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः 008a
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः 008c
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च 009a
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् 009c
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् 010a
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् 010c
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम 011a
अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन 011c
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः 012a
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् 012c
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः 013a
सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् 013c
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा 014a
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् 014c
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन 015a
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् 015c
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः 016a
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते 016c
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ 017a
ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः 017c