वैशम्पायन उवाच 001
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह 001a
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने 001c
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः 002a
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः 002c
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः 003a
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् 003c
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः 004a
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् 004c
वासुदेव उवाच 005
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 005a
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 005c
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् 006a
निकृत्योपचरन्वध्य एष धर्मः सनातनः 006c
वैशम्पायन उवाच 007
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् 007a
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः 007c
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः 008a
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः 008c
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः 009a
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः 009c
अर्जुन उवाच 010
दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः 010a
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने 010c
दश वर्षसहस्राणि दश वर्षशतानि च 011a
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा 011c
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन 012a
अतिष्ठ एकपादेन वायुभक्षः शतं समाः 012c
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः 013a
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके 013c
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् 014a
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् 014c
आतिष्ठस्तप एकेन पादेन नियमे स्थितः 014e
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव 015a
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः 015c
निहत्य नरकं भौममाहृत्य मणिकुण्डले 016a
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः 016c
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् 017a
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् 017c
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः 018a
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव 018c
स त्वं नारायणो भूत्वा हरिरासीः परन्तप 019a
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः 019c
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः 020a
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम 020c
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः 021a
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने 021c
शतं शतसहस्राणि सुवर्णस्य जनार्दन 022a
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः 022c
अदितेरपि पुत्रत्वमेत्य यादवनन्दन 023a
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि 023c
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप 024a
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा 024c
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः 025a
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा 025c
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ 026a
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति 026c
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह 027a
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः 027c
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा 028a
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् 028c
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् 029a
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् 029c
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि 030a
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ 030c
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन 031a
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि 031c
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन 032a
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु 032c
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा 033a
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत 033c
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन 034a
आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप 034c
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते 035a
कर्माणि यानि देव त्वं बाल एव महाद्युते 035c
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् 036a
वैराजभवने चापि ब्रह्मणा न्यवसः सह 036c
वैशम्पायन उवाच 037
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः 037a
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः 037c
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते 038a
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु 038c
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् 039a
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी 039c
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत 040a
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ 040c
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु 041a
धृष्टद्युम्नमुखैर्वीरेर्भ्रातृभिः परिवारिता 041c
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह 042a
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी 042c
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् 043a
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् 043c
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन 044a
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् 044c
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम 045a
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् 045c
साध्यानामपि देवानां वसूनामीश्वरेश्वरः 046a
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् 046c
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो 047a
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः 047c
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् 048a
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम 048c
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् 049a
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम 049c
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः 050a
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश 050c
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् 050e
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् 051a
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् 051c
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन 052a
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः 052c
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो 053a
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी 053c
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता 054a
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि 054c
राजमध्ये सभायां तु रजसाभिसमीरिताम् 055a
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः 055c
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन 056a
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु 056c
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः 057a
स्नुषा भवामि धर्मेण साहं दासीकृता बलात् 057c
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् 058a
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् 058c
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 059a
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन 059c
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा 060a
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि 060c
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता 061a
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः 061c
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत 062a
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे 062c
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन 063a
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः 063c
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः 064a
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन 064c
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् 065a
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः 065c
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः 066a
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः 066c
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः 067a
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् 067c
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा 068a
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला 068c
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् 069a
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन 069c
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् 070a
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति 070c
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् 071a
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन 071c
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् 072a
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् 072c
तज्जीर्णमविकारेण सहान्नेन जनार्दन 073a
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम 073c
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् 074a
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् 074c
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् 075a
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः 075c
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् 076a
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा 076c
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् 077a
सारथिं चास्य दयितमपहस्तेन जघ्निवान् 077c
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते 078a
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति 078c
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् 079a
महद्व्यसनमापन्ना शिखिना परिवारिता 079c
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् 080a
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह 080c
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः 081a
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः 081c
वैनतेयो यथा पक्षी गरुडः पततां वरः 082a
तथैवाभिपतिष्यामि भयं वो नेह विद्यते 082c
आर्यामङ्केन वामेन राजानं दक्षिणेन च 083a
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च 083c
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् 084a
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् 084c
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः 085a
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् 085c
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः 086a
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी 086c
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् 087a
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना 087c
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः 088a
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते 088c
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः 089a
भीमरूपो महानादान्विसृजन्भीमदर्शनः 089c
केन सार्धं कथयसि आनयैनं ममान्तिकम् 090a
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि 090c
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी 091a
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता 091c
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः 092a
अभ्यद्रवत वेगेन भीमसेनं तदा किल 092c
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली 093a
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः 093c
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् 094a
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् 094c
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा 095a
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः 095c
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः 096a
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव 096c
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह 097a
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः 097c
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः 098a
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः 098c
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् 099a
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः 099c
तत्राप्यासादयामासुर्बकं नाम महाबलम् 100a
पुरुषादं प्रतिभयं हिडिम्बेनैव सम्मितम् 100c
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः 101a
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ 101c
लब्धाहमपि तत्रैव वसता सव्यसाचिना 102a
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा 102c
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन 103a
स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः 103c
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः 104a
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः 104c
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः 105a
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् 105c
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् 106a
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् 106c
कुले महति जातास्मि दिव्येन विधिना किल 107a
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः 107c
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती 108a
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन 108c
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना 109a
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी 109c
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ 110a
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः 110c
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः 111a
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् 111c
नैव मे पतयः सन्ति न पुत्रा मधुसूदन 112a
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः 112c
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् 113a
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा 113c
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे 114a
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि 114c
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् 115a
निहताञ्जीवितं त्यक्त्वा शयनान्वसुधातले 115c
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः 116a
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि 116c
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् 117a
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् 117c
धृष्टद्युम्न उवाच 118
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् 118a
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः 118c
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते 119a
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः 119c
वैशम्पायन उवाच 120
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता 120a
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् 120c