धृतराष्ट्र उवाच 001
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् 001a
रक्षसा भीमसेनस्य कथमासीत्समागमः 001c
विदुर उवाच 002
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः 002a
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः 002c
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः 003a
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् 003c
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप 004a
प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् 004c
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः 005a
दूरात्परिहरन्ति स्म पुरुषादभयात्किल 005c
तेषां प्रविशतां तत्र मार्गमावृत्य भारत 006a
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत 006c
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् 007a
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः 007c
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् 008a
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् 008c
सृजन्तं राक्षसीं मायां महारावविराविणम् 009a
मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् 009c
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् 010a
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह 010c
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् 011a
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् 011c
तस्योरुवाताभिहता ताम्रपल्लवबाहवः 012a
विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् 012c
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः 013a
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः 013c
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः 014a
पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः 014c
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् 015a
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः 015c
तं समासाद्य वित्रस्ता कृष्णा कमललोचना 016a
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने 016c
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा 017a
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता 017c
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः 018a
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् 018c
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् 019a
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः 019c
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् 019e
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः 020a
काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत 020c
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः 021a
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् 021c
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् 022a
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः 022c
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः 023a
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् 023c
के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम् 024a
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः 024c
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः 025a
आचचक्षे ततः सर्वं गोत्रनामादि भारत 025c
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः 026a
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः 026c
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः 027a
वनमभ्यागतो घोरमिदं तव परिग्रहम् 027c
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम 028a
उपपादितमद्येह चिरकालान्मनोगतम् 028c
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः 029a
चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् 029c
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् 030a
अनेन हि मम भ्राता बको विनिहतः प्रियः 030c
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा 031a
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् 031c
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः 032a
हतो दुरात्मनानेन स्वसा चास्य हृता पुरा 032c
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् 033a
प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते 033c
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् 034a
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा 034c
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च 035a
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् 035c
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै 036a
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर 036c
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् 037a
सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् 037c
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः 038a
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् 038c
ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् 039a
दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा 039c
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् 040a
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः 040c
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम् 041a
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत 041c
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः 042a
निष्पिष्य पाणिना पाणिं सन्दष्टोष्ठपुटो बली 042c
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा 042e
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि 043a
पातयामास वेगेन कुलिशं मघवानिव 043c
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत 044a
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव 044c
तदुदस्तमलातं तु भीमः प्रहरतां वरः 045a
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् 045c
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् 046a
दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत 046c
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 047a
वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा 047c
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः 048a
यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा 048c
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः 049a
चीराणीव व्युदस्तानि रेजुस्तत्र महावने 049c
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते 050a
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च 050c
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः 051a
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह 051c
तं शिलाताडनजडं पर्यधावत्स राक्षसः 052a
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् 052c
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् 053a
उभावपि चकाशेते प्रयुद्धौ वृषभाविव 053c
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः 054a
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः 054c
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः 055a
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः 055c
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः 056a
मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः 056c
तं चाप्यथ ततो रक्षः प्रतिजग्राह वीर्यवान् 057a
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः 057c
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा 058a
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि 058c
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः 059a
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् 059c
स भीमेन परामृष्टो दुर्बलो बलिना रणे 060a
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् 060c
तत एनं परिश्रान्तमुपलभ्य वृकोदरः 061a
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा 061c
विनदन्तं महानादं भिन्नभेरीसमस्वनम् 062a
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् 062c
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः 063a
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् 063c
आक्रम्य स कटीदेशे जानुना राक्षसाधमम् 064a
अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः 064c
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् 065a
भूतले पातयामास वाक्यं चेदमुवाच ह 065c
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् 066a
करिष्यसि गतश्चासि यमस्य सदनं प्रति 066c
इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधविवृत्तनेत्रः 067a
प्रस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज 067c
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः 068a
भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः 068c
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप 069a
भीमेन वचनात्तस्य धर्मराजस्य कौरव 069c
ततो निष्कण्टकं कृत्वा वनं तदपराजितः 070a
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह 070c
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः 071a
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् 071c
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः 072a
विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् 072c
स मया गच्छता मार्गे विनिकीर्णो भयावहः 073a
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः 073c
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत 074a
ब्राह्मणानां कथयतां ये तत्रासन्समागताः 074c
वैशम्पायन उवाच 075
एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम् 075a
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा 075c