धृतराष्ट्र उवाच 001
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने 001a
अहं चैव विजानामि सर्वे चेमे नराधिपाः 001c
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् 002a
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने 002c
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि 003a
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम 003c
व्यास उवाच 004
अयमायाति वै राजन्मैत्रेयो भगवानृषिः 004a
अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया 004c
एष दुर्योधनं पुत्रं तव राजन्महानृषिः 005a
अनुशास्ता यथान्यायं शमायास्य कुलस्य ते 005c
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया 006a
अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा 006c
वैशम्पायन उवाच 007
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत 007a
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः 007c
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम् 008a
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः 008c
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले 009a
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः 009c
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः 010a
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति 010c
मैत्रेय उवाच 011
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् 011a
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने 011c
तं जटाजिनसंवीतं तपोवननिवासिनम् 012a
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो 012c
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् 013a
अनयं द्यूतरूपेण महापायमुपस्थितम् 013c
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया 014a
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो 014c
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति 015a
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप 015c
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् 016a
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे 016c
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन 017a
तेन न भ्राजसे राजंस्तापसानां समागमे 017c
वैशम्पायन उवाच 018
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् 018a
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः 018c
दुर्योधन महाबाहो निबोध वदतां वर 019a
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव 019c
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः 020a
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ 020c
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः 021a
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः 021c
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः 022a
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् 022c
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः 022e
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् 023a
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः 023c
तं भीमः समरश्लाघी बलेन बलिनां वरः 024a
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा 024c
पश्य दिग्विजये राजन्यथा भीमेन पातितः 025a
जरासन्धो महेष्वासो नागायुतबलो युधि 025c
सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः 026a
कस्तान्युधि समासीत जरामरणवान्नरः 026c
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ 027a
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः 027c
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते 028a
ऊरुं गजकराकारं करेणाभिजघान सः 028c
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् 029a
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः 029c
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् 030a
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् 030c
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः 031a
विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे 031c
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः 032a
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् 032c
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि 033a
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि 033c
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् 034a
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली 034c
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः 035a
प्रसादयामास मुनिं नैतदेवं भवेदिति 035c
मैत्रेय उवाच 036
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा 036a
शापो न भविता तात विपरीते भविष्यति 036c
वैशम्पायन उवाच 037
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा 037a
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः 037c
मैत्रेय उवाच 038
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः 038a
एष ते विदुरः सर्वमाख्यास्यति गते मयि 038c
वैशम्पायन उवाच 039
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् 039a
किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् 039c