धृतराष्ट्र उवाच 001
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् 001a
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने 001c
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च 002a
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् 002c
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् 003a
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत 003c
व्यास उवाच 004
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् 004a
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते 004c
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः 005a
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् 005c
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् 006a
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते 006c
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल 007a
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत 007c
इन्द्र उवाच 008
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् 008a
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति 008c
सुरभिरुवाच 009
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप 009a
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक 009c
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् 010a
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् 010c
एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप 011a
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम 011c
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् 012a
अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः 012c
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव 012e
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः 013a
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव 013c
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता 014a
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती 014c
इन्द्र उवाच 015
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने 015a
किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते 015c
सुरभिरुवाच 016
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे 016a
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा 016c
व्यास उवाच 017
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः 017a
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् 017c
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् 018a
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः 018c
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा 019a
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा 019c
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक 020a
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् 020c
चिराय तव पुत्राणां शतमेकश्च पार्थिव 021a
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः 021c
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि 022a
इति दीनेषु पार्थेषु मनो मे परितप्यते 022c
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि 023a
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः 023c