व्यास उवाच 001
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम 001a
वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् 001c
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् 002a
निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः 002c
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे 003a
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत 003c
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः 004a
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति 004c
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः 005a
वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते 005c
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् 006a
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् 006c
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः 007a
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः 007c
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत 008a
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् 008c
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः 009a
पाण्डवैः सहितो राजन्नेक एवासहायवान् 009c
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः 010a
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर 010c
अथ वा जायमानस्य यच्छीलमनुजायते 011a
श्रूयते तन्महाराज नामृतस्यापसर्पति 011c
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा 012a
भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते 012c