वैशम्पायन उवाच 001
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् 001a
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः 001c
स सौबलं समानाय्य कर्णदुःशासनावपि 002a
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः 002c
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य सम्मतः 003a
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः 003c
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति 004a
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम 004c
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन 005a
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः 005c
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् 006a
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे 006c
शकुनिरुवाच 007
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते 007a
गतास्ते समयं कृत्वा नैतदेवं भविष्यति 007c
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ 008a
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् 008c
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् 009a
निरस्य समयं भूयः पणोऽस्माकं भविष्यति 009c
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः 010a
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः 010c
दुःशासन उवाच 011
एवमेतन्महाप्राज्ञ यथा वदसि मातुल 011a
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते 011c
कर्ण उवाच 012
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् 012a
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते 012c
वैशम्पायन उवाच 013
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा 013a
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः 013c
उपलभ्य ततः कर्णो विवृत्य नयने शुभे 014a
रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ 014c
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना 015a
अहो मम मतं यत्तन्निबोधत नराधिपाः 015c
प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः 016a
न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः 016c
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः 017a
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् 017c
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् 018a
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् 018c
यावदेव परिद्यूना यावच्छोकपरायणाः 019a
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम 019c
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः 020a
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा 020c
एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् 021a
निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः 021c
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा 022a
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा 022c
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः 023a
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः 023c