वैशम्पायन उवाच 001
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति 001a
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत 001c
स सभाद्वारमागम्य विदुरस्मारमोहितः 002a
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः 002c
स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात् 003a
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् 003c
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः 004a
तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे 004c
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै 005a
इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् 005c
पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः 006a
भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् 006c
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम 007a
यदि जीवति रोषेण मया पापेन निर्धुतः 007c
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन 008a
व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना 008c
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् 009a
न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय 009c
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च 010a
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् 010c
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः 011a
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् 011c
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः 012a
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् 012c
युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः 013a
भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत 013c
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः 014a
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः 014c
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः 015a
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् 015c
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् 016a
नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद 016c
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः 017a
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् 017c
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् 018a
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ 018c
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ 019a
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः 019c
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह 020a
क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा 020c
विदुर उवाच 021
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् 021a
तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः 021c
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः 022a
दीनाभिपातिनो राजन्नात्र कार्या विचारणा 022c
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव 023a
दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति 023c
वैशम्पायन उवाच 024
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती 024a
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् 024c