वैशम्पायन उवाच 001
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः 001a
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः 001c
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते 002a
ययुर्वनेनैव वनं सततं पश्चिमां दिशम् 002c
ततः सरस्वतीकूले समेषु मरुधन्वसु 003a
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् 003c
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे 004a
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत 004c
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः 005a
जगामैकरथेनैव काम्यकं वनमृद्धिमत् 005c
ततो यात्वा विदुरः काननं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन 006a
ददर्शासीनं धर्मराजं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च 006c
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसन्धः स राजा 007a
अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य 007c
कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयाति 008a
कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम् 008c
समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम् 009a
गाण्डीवे वा संशयिते कथं चिद्राज्यप्राप्तिः संशयिता भवेन्नः 009c
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव 010a
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् 010c
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम् 011a
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः 011c
विदुर उवाच 012
अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य 012a
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि 012c
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव 013a
तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये 013c
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः 014a
यथातुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम् 014c
न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा 015a
ब्रुवन्न रुच्यै भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः 015c
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति 016a
यथा पर्णे पुष्करस्येव सिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् 016c
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यत्र श्रद्धा भारत तत्र याहि 017a
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा 017c
सोऽहं त्यक्तो धृतराष्ट्रेण राजंस्त्वां शासितुमुपयातस्त्वरावान् 018a
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः 018c
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः 019a
सं वर्धयन्स्तोकमिवाग्निमात्मवान्स वै भुङ्क्ते पृथिवीमेक एव 019c
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः 020a
सहायानामेष सङ्ग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः 020c
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः 021a
आत्मा चैषामग्रतो नातिवर्तेदेवंवृत्तिर्वर्धते भूमिपालः 021c
युधिष्ठिर उवाच 022
एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः 022a
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् 022c