वैशम्पायन उवाच 001
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः 001a
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा 001c
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम् 002a
समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि 002c
एवं गते विदुर यदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन् 003a
ते चाप्यस्मान्नोद्धरेयुः समूलान्न कामये तांश्च विनश्यमानान् 003c
विदुर उवाच 004
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति 004a
धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च 004c
स वै धर्मो विप्रलुप्तः सभायां पापात्मभिः सौबलेयप्रधानैः 005a
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते 005c
एतस्य ते दुष्प्रणीतस्य राजञ्शेषस्याहं परिपश्याम्युपायम् 006a
यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु 006c
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयासीत् 007a
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत् 007c
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः 008a
एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व 008c
अथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः 009a
न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके 009c
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम् 010a
येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति 010c
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम् 011a
पुत्रं त्यजेममहितं कुलस्येत्येतद्राजन्न च तत्त्वं चकर्थ 011c
इदानीं ते हितमुक्तं न चेत्त्वं कर्तासि राजन्परितप्तासि पश्चात् 011e
यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम् 012a
तापो न ते वै भविता प्रीतियोगात्त्वं चेन्न गृह्णासि सुतं सहायैः 012c
अथापरो भवति हि तं निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये 012e
अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन् 013a
ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः 013c
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् 014a
दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च 014c
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य 015a
त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन् 015c
धृतराष्ट्र उवाच 016
एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च 016a
हितं तेषामहितं मामकानामेतत्सर्वं मम नोपैति चेतः 016c
इदं त्विदानीं कुत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ 017a
तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम् 017c
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः 018a
स्वं वै देहं परहेतोस्त्यजेति को नु ब्रूयात्समतामन्ववेक्षन् 018c
स मा जिह्मं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकं धारयामि 019a
यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति 019c
वैशम्पायन उवाच 020
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन् 020a
नेदमस्तीत्यथ विदुरो भाषमाणः सम्प्राद्रवद्यत्र पार्था बभूवुः 020c