वैशम्पायन उवाच 001
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् 001a
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः 001c
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि 002a
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः 002c
फलमूलामिषं शाकं संस्कृतं यन्महानसे 003a
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति 003c
धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत 003e
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् 004a
जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः 004c
द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः 005a
महानसे तदान्नं तु साधयामास पाण्डवः 005c
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् 006a
अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् 006c
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि 007a
शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः 007c
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती 007e
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः 008a
कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः 008c
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु 009a
यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः 009c
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः 010a
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् 010c