वैशम्पायन उवाच 001
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः 001a
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् 001c
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः 002a
न चास्मि पालने शक्तो बहुदुःखसमन्वितः 002c
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे 003a
कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे 003c
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् 004a
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः 004c
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् 005a
ततोऽनुकम्पया तेषां सविता स्वपिता इव 005c
गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः 006a
दक्षिणायनमावृत्तो महीं निविशते रविः 006c
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः 007a
दिवस्तेजः समुद्धृत्य जनयामास वारिणा 007c
निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः 008a
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि 008c
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् 009a
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज 009c
राजानो हि महात्मानो योनिकर्मविशोधिताः 010a
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् 010c
भीमेन कार्तवीर्येण वैन्येन नहुषेण च 011a
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः 011c
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः 012a
तप आस्थाय धर्मेण द्विजातीन्भर भारत 012c
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः 013a
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् 013c
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् 014a
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः 014c
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान् 014e
जनमेजय उवाच 015
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः 015a
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् 015c
वैशम्पायन उवाच 016
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः 016a
क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः 016c
धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने 017a
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते 017c
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः 018a
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः 018c
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् 019a
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च 019c
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः 020a
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः 020c
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः 021a
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः 021c
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः 022a
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा 022c
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः 023a
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः 023c
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः 024a
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा 024c
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः 025a
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः 025c
जयो विशालो वरदः शीघ्रगः प्राणधारणः 026a
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः 026c
द्वादशात्मारविन्दाक्षः पिता माता पितामहः 027a
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् 027c
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः 028a
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः 028c
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः 029a
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना 029c
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् 030a
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् 030c
सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् 031a
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् 031c
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् 032a
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् 032c
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः 033a
स मुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् 033c