वैशम्पायन उवाच 001
प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् 001a
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः 001c
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः 001e
वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः 002a
फलमूलामिषाहारा वनं यास्याम दुःखिताः 002c
वनं च दोषबहुलं बहुव्यालसरीसृपम् 003a
परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति 003c
ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् 004a
किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः 004c
ब्राह्मणा ऊचुः 005
गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः 005a
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः 005c
अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते 006a
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु 006c
युधिष्ठिर उवाच 007
ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः 007a
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् 007c
आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा 008a
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः 008c
द्रौपद्या विप्रकर्षेण राज्यापहरणेन च 009a
दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे 009c
ब्राह्मणा ऊचुः 010
अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव 010a
स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् 010c
अनुध्यानेन जप्येन विधास्यामः शिवं तव 011a
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने 011c
युधिष्ठिर उवाच 012
एवमेतन्न सन्देहो रमेयं ब्राह्मणैः सह 012a
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः 012c
कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् 013a
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् 013c
वैशम्पायन उवाच 014
इत्युक्त्वा स नृपः शोचन्निषसाद महीतले 014a
तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः 014c
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् 014e
शोकस्थानसहस्राणि भयस्थानशतानि च 015a
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 015c
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु 016a
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 016c
अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् 017a
श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता 017c
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च 018a
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः 018c
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा 019a
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना 019c
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् 020a
तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु 020c
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् 021a
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते 021c
तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् 022a
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु 022c
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते 023a
मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम् 023c
मानसेन हि दुःखेन शरीरमुपतप्यते 024a
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् 024c
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना 025a
प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति 025c
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते 026a
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च 026c
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च 027a
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते 027c
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा 028a
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः 028c
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् 029a
धर्मार्थिनं तथाल्पोऽपि रागदोषो विनाशयेत् 029c
विप्रयोगे न तु त्यागी दोषदर्शी समागमात् 030a
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः 030c
तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसञ्चयात् 031a
स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् 031c
ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु 032a
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् 032c
रागाभिभूतः पुरुषः कामेन परिकृष्यते 033a
इच्छा सञ्जायते तस्य ततस्तृष्णा प्रवर्तते 033c
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी नृणाम् 034a
अधर्मबहुला चैव घोरा पापानुबन्धिनी 034c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 035a
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 035c
अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् 036a
विनाशयति सम्भूता अयोनिज इवानलः 036c
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति 037a
तथाकृतात्मा लोभेन सहजेन विनश्यति 037c
राजतः सलिलादग्नेश्चोरतः स्वजनादपि 038a
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव 038c
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि 039a
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् 039c
अर्थ एव हि केषाञ्चिदनर्थो भविता नृणाम् 040a
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः 040c
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः 040e
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च 041a
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् 041c
अर्थस्योपार्जने दुःखं पालने च क्षये तथा 042a
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् 042c
अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः 043a
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् 043c
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः 044a
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् 044c
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः 045a
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः 045c
ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः 045e
त्यजेत सञ्चयांस्तस्मात्तज्जं क्लेशं सहेत कः 046a
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः 046c
अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते 047a
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् 047c
युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि 048a
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः 048c
युधिष्ठिर उवाच 049
नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम 049a
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः 049c
कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे 050a
भरणं पालनं चापि न कुर्यादनुयायिनाम् 050c
संविभागो हि भूतानां सर्वेषामेव शिष्यते 051a
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना 051c
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता 052a
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन 052c
देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् 053a
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् 053c
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् 054a
प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् 054c
अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः 055a
पुत्रदारभृताश्चैव निर्दहेयुरपूजिताः 055c
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् 056a
न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् 056c
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि 057a
वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते 057c
विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः 058a
विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् 058c
एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे 059a
तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे 059c
शौनक उवाच 060
अहो बत महत्कष्टं विपरीतमिदं जगत् 060a
येनापत्रपते साधुरसाधुस्तेन तुष्यति 060c
शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु 061a
मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः 061c
ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः 062a
विमूढसञ्ज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः 062c
षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा 063a
तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः 063c
मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् 064a
तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते 064c
ततः सङ्कल्पवीर्येण कामेन विषयेषुभिः 065a
विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत् 065c
ततो विहारैराहारैर्मोहितश्च विशां पते 066a
महामोहमुखे मग्नो नात्मानमवबुध्यते 066c
एवं पतति संसारे तासु तास्विह योनिषु 067a
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् 067c
ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते 068a
जले भुवि तथाकाशे जायमानः पुनः पुनः 068c
अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु 069a
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः 069c
यदिदं वेदवचनं कुरु कर्म त्यजेति च 070a
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् 070c
इज्याध्ययनदानानि तपः सत्यं क्षमा दमः 071a
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः 071c
तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः 072a
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् 072c
उत्तरो देवयानस्तु सद्भिराचरितः सदा 073a
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् 073c
सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात् 074a
सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् 074c
सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् 075a
सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात् 075c
एवं कर्माणि कुर्वन्ति संसारविजिगीषवः 075e
रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः 076a
रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि 076c
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः 076e
तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् 077a
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत 077c
पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते 078a
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै 078c
सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् 079a
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् 079c