जनमेजय उवाच 001
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः 001a
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम 001c
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् 002a
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः 002c
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः 003a
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः 003c
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् 004a
किमाहाराः किमाचाराः क्व च वासो महात्मनाम् 004c
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् 005a
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् 005c
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् 006a
पतिव्रता महाभागा सततं सत्यवादिनी 006c
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत 006e
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन 007a
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् 007c
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे 007e
वैशम्पायन उवाच 008
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः 008a
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् 008c
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा 009a
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया 009c
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश 010a
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः 010c
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः 011a
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् 011c
ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् 011e
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः 012a
यत्र दुर्योधनः पापः सौबलेयेन पालितः 012c
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति 012e
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् 013a
यत्र पापसहायोऽयं पापो राज्यं बुभूषते 013c
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः 014a
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः 014c
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः 015a
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः 015c
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः 016a
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः 016c
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च 017a
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् 017c
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः 018a
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ 018c
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः 019a
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ 019c
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् 020a
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः 020c
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः 021a
शुभाशुभाधिवासेन संसर्गं कुरुते यथा 021c
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा 022a
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः 022c
मोहजालस्य योनिर्हि मूढैरेव समागमः 023a
अहन्यहनि धर्मस्य योनिः साधुसमागमः 023c
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः 024a
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः 024c
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च 025a
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी 025c
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु 026a
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् 026c
असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् 027a
धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः 027c
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् 028a
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः 028c
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः 029a
लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसम्मताः 029c
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः 030a
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः 030c
युधिष्ठिर उवाच 031
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः 031a
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः 031c
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः 032a
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया 032c
भीष्मः पितामहो राजा विदुरो जननी च मे 033a
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये 033c
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः 034a
युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः 034c
निवर्ततागता दूरं समागमनशापिताः 035a
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः 035c
एतद्धि मम कार्याणां परमं हृदि संस्थितम् 036a
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति 036c
वैशम्पायन उवाच 037
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः 037a
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः 037c
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः 038a
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान् 038c
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः 039a
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् 039c
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः 040a
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि 040c
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः 040e
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः 041a
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः 041c
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः 041e
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे 042a
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत 042c
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः 043a
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् 043c