वैशम्पायन उवाच 001
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे 001a
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् 001c
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् 002a
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः 002c
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप 003a
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि 003c
धृतराष्ट्र उवाच 004
अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति 004a
पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः 004c
सञ्जय उवाच 005
तवेदं सुकृतं राजन्महद्वैरं भविष्यति 005a
विनाशः सर्वलोकस्य सानुबन्धो भविष्यति 005c
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च 006a
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् 006c
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव 007a
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् 007c
धृतराष्ट्र उवाच 008
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् 008a
बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति 008c
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते 009a
अनयो नयसङ्काशो हृदयान्नापसर्पति 009c
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः 010a
उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते 010c
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् 011a
कालस्य बलमेतावद्विपरीतार्थदर्शनम् 011c
आसादितमिदं घोरं तुमुलं लोमहर्षणम् 012a
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् 012c
अयोनिजां रूपवतीं कुले जातां विभावरीम् 013a
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् 013c
पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् 014a
स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् 014c
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् 015a
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः 015c
विहीनान्सर्वकामेभ्यो दासभाववशं गतान् 016a
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे 016c
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि 017a
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् 017c
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी 018a
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय 018c
भारतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः 019a
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् 019c
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः 020a
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे 020c
आसीन्निष्टानको घोरो निर्घातश्च महानभूत् 021a
दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् 021c
अपर्वणि महाघोरं प्रजानां जनयन्भयम् 021e
तथैव रथशालासु प्रादुरासीद्धुताशनः 022a
ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये 022c
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः 023a
तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् 023c
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय 024a
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः 024c
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः 025a
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति 025c
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः 026a
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् 026c
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् 027a
एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता 027c
एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा 028a
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति 028c
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः 029a
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः 029c
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः 030a
आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः 030c
तेषां मध्ये महेष्वासो भीमसेनो महाबलः 031a
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः 031c
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः 032a
गदावेगं च भीमस्य नालं सोढुं नराधिपाः 032c
तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः 033a
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् 033c
तथा हि बलवान्राजा जरासन्धो महाद्युतिः 034a
बाहुप्रहरणेनैव भीमेन निहतो युधि 034c
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ 035a
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया 035c
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः 036a
उक्तवान्न गृहीतं च मया पुत्रहितेप्सया 036c