धृतराष्ट्र उवाच 001
कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः 001a
भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ 001c
धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी 002a
श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् 002c
विदुर उवाच 003
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः 003a
बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः 003c
सिकता वपन्सव्यसाची राजानमनुगच्छति 004a
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति 004c
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः 005a
दर्शनीयतमो लोके राजानमनुगच्छति 005c
कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना 006a
दर्शनीया प्ररुदती राजानमनुगच्छति 006c
धौम्यो याम्यानि सामानि रौद्राणि च विशां पते 007a
गायन्गच्छति मार्गेषु कुशानादाय पाणिना 007c
धृतराष्ट्र उवाच 008
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः 008a
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते 008c
विदुर उवाच 009
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च 009a
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः 009c
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत 010a
निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने 010c
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा 011a
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः 011c
यथा च भीमो व्रजति तन्मे निगदतः शृणु 012a
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ 012c
बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति 013a
बाहू दर्शयमानो हि बाहुद्रविणदर्पितः 013c
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः 013e
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा 014a
सिकता वपन्सव्यसाची राजानमनुगच्छति 014c
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत 015a
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु 015c
न मे कश्चिद्विजानीयान्मुखमद्येति भारत 016a
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति 016c
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो 017a
पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति 017c
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला 018a
शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् 018c
यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे 019a
हतपत्यो हतसुता हतबन्धुजनप्रियाः 019c
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः 020a
एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् 020c
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः 021a
सामानि गायन्याम्यानि पुरतो याति भारत 021c
हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा 022a
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति 022c
हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् 023a
इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः 023c
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् 024a
कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः 024c
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् 025a
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत 025c
राहुरग्रसदादित्यमपर्वणि विशां पते 026a
उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत 026c
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः 027a
देवायतनचैत्येषु प्राकाराट्टालकेषु च 027c
एवमेते महोत्पाता वनं गच्छति पाण्डवे 028a
भारतानामभावाय राजन्दुर्मन्त्रिते तव 028c
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः 029a
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह 029c
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः 030a
दुर्योधनापराधेन भीमार्जुनबलेन च 030c
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत 031a
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः 031c
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः 032a
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् 032c
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् 033a
दुःशासनं च कर्णं च सर्वानेव च भारतान् 033c
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः 034a
अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् 034c
गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् 035a
नोत्सहे समभित्यक्तुं दैवमूलमतः परम् 035c
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः 036a
ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः 036c
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः 037a
वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः 037c
मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे 038a
पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत 038c
याजोपयाजतपसा पुत्रं लेभे स पावकात् 039a
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् 039c
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी 040a
मर्त्यधर्मतया तस्मादिति मां भयमाविशत् 040c
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः 041a
सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः 041c
मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः 042a
नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः 042c
त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् 043a
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी 043c
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च 044a
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् 044c
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि 045a
साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे 045c
वैशम्पायन उवाच 046
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् 046a
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् 046c
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः 047a
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः 047c