वैशम्पायन उवाच 001
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् 001a
आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः 001c
यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा 002a
ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् 002c
कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् 003a
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् 003c
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् 004a
स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा 004c
न त्वां सन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते 005a
साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् 005c
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे 006a
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता 006c
भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते 007a
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि 007c
सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् 008a
यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः 008c
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला 009a
शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ 009c
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् 010a
अथापश्यत्सुतान्सर्वान्हृताभरणवाससः 010c
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् 011a
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् 011c
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला 012a
सस्वजानावदच्छोकात्तत्तद्विलपती बहु 012c
कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् 013a
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा 013c
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः 014a
कस्यापध्यानजं चेदमागः पश्यामि वो धिया 014c
स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् 015a
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः 015c
कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः 016a
वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः 016c
यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् 017a
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् 017c
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा 018a
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् 018c
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् 019a
मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि 019c
रत्या मत्या च गत्या च ययाहमभिसन्धिता 020a
जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् 020c
एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च 021a
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः 021c
विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः 022a
प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः 022c
राजा च धृतराष्ट्रः स शोकाकुलितचेतनः 023a
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति 023c
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् 024a
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः 024c