वैशम्पायन उवाच 001
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः 001a
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् 001c
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान् 002a
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् 002c
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः 003a
पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः 003c
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः 004a
गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः 004c
नरकं पातिताः पार्था दीर्घकालमनन्तकम् 005a
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः 005c
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः 006a
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः 006c
चित्रान्सन्नाहानवमुञ्चन्तु चैषां वासांसि दिव्यानि च भानुमन्ति 007a
निवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः 007c
न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा 008a
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः 008c
अयं हि वासोदय ईदृशानां मनस्विनां कौरव मा भवेद्वः 009a
अदीक्षितानामजिनानि यद्वद्बलीयसां पश्यत पाण्डवानाम् 009c
महाप्राज्ञः सोमको यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय 010a
अकार्षीद्वै दुष्कृतं नेह सन्ति क्लीबाः पार्थाः पतयो याज्ञसेन्याः 010c
सूक्ष्मान्प्रावारानजिनानि चोदितान्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् 011a
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि पतिं वृणीष्व यमिहान्यमिच्छसि 011c
एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः 012a
एषां वृणीष्वैकतमं पतित्वे न त्वां तपेत्कालविपर्ययोऽयम् 012c
यथाफलाः षण्ढतिला यथा चर्ममया मृगाः 013a
तथैव पाण्डवाः सर्वे यथा काकयवा अपि 013c
किं पाण्डवांस्त्वं पतितानुपास्से मोघः श्रमः षण्ढतिलानुपास्य 014a
एवं नृशंसः परुषाणि पार्थानश्रावयद्धृतराष्ट्रस्य पुत्रः 014c
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् 015a
उवाचेदं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम् 015c
भीमसेन उवाच 016
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे 016a
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे 016c
यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम् 017a
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे 017c
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः 018a
गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् 018c
वैशम्पायन उवाच 019
एवं ब्रुवाणमजिनैर्विवासितं दुःखाभिभूतं परिनृत्यति स्म 019a
मध्ये कुरूणां धर्मनिबद्धमार्गं गौर्गौरिति स्माह्वयन्मुक्तलज्जः 019c
भीमसेन उवाच 020
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया 020a
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति 020c
मा ह स्म सुकृताल्ँलोकान्गच्छेत्पार्थो वृकोदरः 021a
यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे 021c
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् 022a
शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः 022c
वैशम्पायन उवाच 023
तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात् 023a
गतिं स्वगत्यानुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः 023c
नैतावता कृतमित्यब्रवीत्तं वृकोदरः सन्निवृत्तार्धकायः 024a
शीघ्रं हि त्वा निहतं सानुबन्धं संस्मार्याहं प्रतिवक्ष्यामि मूढ 024c
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी 025a
राजानुगः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः 025c
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः 026a
शकुनिं चाक्षकितवं सहदेवो हनिष्यति 026c
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः 027a
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति 027c
सुयोधनमिमं पापं हन्तास्मि गदया युधि 028a
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले 028c
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः 029a
दुःशासनस्य रुधिरं पातास्मि मृगराडिव 029c
अर्जुन उवाच 030
नैव वाचा व्यवसितं भीम विज्ञायते सताम् 030a
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति 030c
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः 031a
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् 031c
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् 032a
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे 032c
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया 033a
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः 033c
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः 034a
तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् 034c
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः 035a
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि 035c
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे 036a
दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति 036c
वैशम्पायन उवाच 037
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः 037a
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् 037c
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् 038a
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः 038c
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर 039a
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः 039c
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् 040a
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः 040c
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् 041a
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल 041c
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते 042a
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् 042c
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः 043a
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये 043c
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् 044a
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् 044c
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् 045a
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव 045c
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः 046a
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् 046c