वैशम्पायन उवाच 001
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् 001a
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः 001c
उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर 002a
एहि पाण्डव दीव्येति पिता त्वामाह भारत 002c
युधिष्ठिर उवाच 003
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् 003a
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि 003c
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च 004a
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे 004c
वैशम्पायन उवाच 005
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः 005a
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः 005c
विविशुस्ते सभां तां तु पुनरेव महारथाः 006a
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः 006c
ययोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये 007a
सर्वलोकविनाशाय दैवेनोपनिपीडिताः 007c
शकुनिरुवाच 008
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् 008a
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ 008c
वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः 009a
प्रविशेम महारण्यं रौरवाजिनवाससः 009c
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 010a
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश 010c
अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश 011a
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः 011c
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् 012a
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः 012c
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर 013a
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत 013c
सभासद ऊचुः 014
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् 014a
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः 014c
वैशम्पायन उवाच 015
जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः 015a
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः 015c
जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् 016a
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् 016c
युधिष्ठिर उवाच 017
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् 017a
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया 017c
शकुनिरुवाच 018
गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् 018a
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः 018c
एष नो ग्लह एवैको वनवासाय पाण्डवाः 019a
यूयं वयं वा विजिता वसेम वनमाश्रिताः 019c
अनेन व्यवसायेन दीव्याम भरतर्षभ 020a
समुत्क्षेपेण चैकेन वनवासाय भारत 020c
वैशम्पायन उवाच 021
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः 021a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत 021c