जनमेजय उवाच 001
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् 001a
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा 001c
वैशम्पायन उवाच 002
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता 002a
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति 002c
दुर्योधनं समासाद्य सामात्यं भरतर्षभ 003a
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् 003c
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ 004a
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः 004c
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः 005a
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः 005c
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् 006a
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् 006c
दुर्योधन उवाच 007
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः 007a
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः 007c
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण 008a
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् 008c
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् 009a
यदि तान्योधयिष्यामः किं वा नः परिहास्यति 009c
अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् 010a
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति 010c
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः 011a
निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा 011c
सन्नद्धो ह्यर्जुनो याति विवृत्य परमेषुधी 012a
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते 012c
गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः 013a
स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् 013c
नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् 014a
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः 014c
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् 015a
अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः 015c
न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते 016a
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति 016c
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः 017a
एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ 017c
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः 018a
प्रविशेम महारण्यमजिनैः प्रतिवासिताः 018c
त्रयोदशं च सजने अज्ञाताः परिवत्सरम् 019a
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश 019c
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् 020a
अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः 020c
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ 021a
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् 021c
दृढमूला वयं राज्ये मित्राणि परिगृह्य च 022a
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् 022c
ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् 023a
जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप 023c
धृतराष्ट्र उवाच 024
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि 024a
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः 024c
वैशम्पायन उवाच 025
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः 025a
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् 025c
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः 026a
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः 026c
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् 027a
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः 027c
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् 028a
पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता 028c
जाते दुर्योधने क्षत्ता महामतिरभाषत 029a
नीयतां परलोकाय साध्वयं कुलपांसनः 029c
व्यनदज्जातमात्रो हि गोमायुरिव भारत 030a
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत 030c
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो 031a
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि 031c
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् 032a
शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत 032c
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः 033a
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा 033c
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन 034a
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः 034c
शमेन धर्मेण परस्य बुद्ध्या जाता बुद्धिः सास्तु ते मा प्रतीपा 035a
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् 035c
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् 036a
अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् 036c
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः 037a
पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह 037c