युधिष्ठिर उवाच 001
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः 001a
नित्यं हि स्थातुमिच्छामस्तव भारत शासने 001c
धृतराष्ट्र उवाच 002
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत 002a
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत 002c
इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् 003a
धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् 003c
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर 004a
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता 004c
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत 005a
नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते 005c
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् 006a
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः 006c
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः 007a
प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् 007c
नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः 008a
प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः 008c
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि 009a
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः 009c
तथाचरितमार्येण त्वयास्मिन्सत्समागमे 010a
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः 010c
मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् 011a
उपस्थितं वृद्धमन्धं पितरं पश्य भारत 011c
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् 012a
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् 012c
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता 013a
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः 013c
त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः 014a
श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः 014c
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश 015a
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः 015c
वैशम्पायन उवाच 016
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः 016a
कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह 016c
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया 017a
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् 017c