कर्ण उवाच 001
या नः श्रुता मनुष्येषु स्त्रियो रूपेण सम्मताः 001a
तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः 001c
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति 002a
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् 002c
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् 003a
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् 003c
वैशम्पायन उवाच 004
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः 004a
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः 004c
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् 005a
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः 005c
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते 006a
देहे त्रितयमेवैतत्पुरुषस्योपजायते 006c
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् 007a
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् 007c
अर्जुन उवाच 008
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः 008a
भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः 008c
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च 009a
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः 009c
भीम उवाच 010
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् 010a
अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत 010c
किं नो विवदितेनेह किं नः क्लेशेन भारत 011a
अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् 011c
वैशम्पायन उवाच 012
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः 012a
मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत 012c
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा 013a
स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् 013c
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप 014a
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत 014c
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् 015a
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः 015c
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् 016a
मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत 016c
निवार्य तं महाबाहुं कोपसंरक्तलोचनम् 017a
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः 017c