कर्ण उवाच 001
त्रयः किलेमे अधना भवन्ति दासः शिष्यश्चास्वतन्त्रा च नारी 001a
दासस्य पत्नी त्वं धनमस्य भद्रे हीनेश्वरा दासधनं च दासी 001c
प्रविश्य सा नः परिचारैर्भजस्व तत्ते कार्यं शिष्टमावेश्य वेश्म 002a
ईशाः स्म सर्वे तव राजपुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः 002c
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसे देवनेन 003a
अनवद्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं वै तवास्तु 003c
पराजितो नकुलो भीमसेनो युधिष्ठिरः सहदेवोऽर्जुनश्च 004a
दासीभूता प्रविश याज्ञसेनि पराजितास्ते पतयो न सन्ति 004c
प्रयोजनं चात्मनि किं नु मन्यते पराक्रमं पौरुषं चेह पार्थः 005a
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये योऽतिदेवीद्ग्लहेषु 005c
वैशम्पायन उवाच 006
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदार्तरूपः 006a
राजानुगो धर्मपाशानुबद्धो दहन्निवैनं कोपविरक्तदृष्टिः 006c
भीम उवाच 007
नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रविष्टः 007a
किं विद्विषो वाद्य मां धारयेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र 007c
वैशम्पायन उवाच 008
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा 008a
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् 008c
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने 009a
प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे 009c
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् 010a
स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः 010c
कदलीदण्डसदृशं सर्वलक्षणपूजितम् 011a
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् 011c
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव 012a
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् 012c
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते 013a
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव 013c
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः 014a
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे 014c
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः 015a
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः 015c
विदुर उवाच 016
परं भयं पश्यत भीमसेनाद्बुध्यध्वं राज्ञो वरुणस्येव पाशात् 016a
दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि 016c
अतिद्यूतं कृतमिदं धार्तराष्ट्रा येऽस्यां स्त्रियं विवदध्वं सभायाम् 017a
योगक्षेमो दृश्यते वो महाभयः पापान्मन्त्रान्कुरवो मन्त्रयन्ति 017c
इमं धर्मं कुरवो जानताशु दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् 018a
इमां चेत्पूर्वं कितवोऽग्लहीष्यदीशोऽभविष्यदपराजितात्मा 018c
स्वप्ने यथैतद्धि धनं जितं स्यात्तदेवं मन्ये यस्य दीव्यत्यनीशः 019a
गान्धारिपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो मापयात 019c
दुर्योधन उवाच 020
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव 020a
युधिष्ठिरं चेत्प्रवदन्त्यनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि 020c
अर्जुन उवाच 021
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीपुत्रो धर्मराजो महात्मा 021a
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव 021c
वैशम्पायन उवाच 022
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे 022a
तं रासभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः 022c
तं च शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च 023a
भीष्मद्रोणौ गौतमश्चापि विद्वान्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः 023c
ततो गान्धारी विदुरश्चैव विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे 024a
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे 024c
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम् 025a
स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम् 025c
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् 026a
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः 026c
धृतराष्ट्र उवाच 027
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि 027a
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती 027c
द्रौपद्युवाच 028
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ 028a
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः 028c
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः 029a
एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् 029c
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् 030a
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत 030c
धृतराष्ट्र उवाच 031
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् 031a
मनो हि मे वितरति नैकं त्वं वरमर्हसि 031c
द्रौपद्युवाच 032
सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ 032a
नकुलं सहदेवं च द्वितीयं वरये वरम् 032c
धृतराष्ट्र उवाच 033
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता 033a
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी 033c
द्रौपद्युवाच 034
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे 034a
अनर्हा वरमादातुं तृतीयं राजसत्तम 034c
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ 035a
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः 035c
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम 036a
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा 036c